Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 952

1875 Mantra
Devata- इन्द्रः Rishi- पावकोऽग्निर्बार्हस्पत्यो वा, गृहपतियविष्ठौ सहसः पुत्रावन्यतरो वा Chhand- बृहती Swara- मध्यमः
Mantra with Swara
इ꣡न्द्र꣢ जु꣣ष꣢स्व꣣ प्र꣢ व꣣हा꣡ या꣢हि शूर꣣ ह꣡रि꣢ह । पि꣡बा꣢ सु꣣त꣡स्य꣢ म꣣ति꣡र्न मधो꣢꣯श्चका꣣न꣢꣫श्चारु꣣र्म꣡दा꣢य ॥९५२॥

इ꣡न्द्र꣢꣯ । जु꣣ष꣡स्व꣢ । प्र । व꣣ह । आ꣢ । या꣣हि । शूर । ह꣡रि꣢꣯ह । पि꣡ब꣢꣯ । सु꣣त꣡स्य꣢ । म꣣तिः꣢ । न । म꣡धोः꣢꣯ । च꣣कानः꣢ । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य ॥९५२॥

Mantra without Swara
इन्द्र जुषस्व प्र वहा याहि शूर हरिह । पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय ॥

इन्द्र । जुषस्व । प्र । वह । आ । याहि । शूर । हरिह । पिब । सुतस्य । मतिः । न । मधोः । चकानः । चारुः । मदाय ॥९५२॥

Samveda - Mantra Number : 952
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जीवात्मन् ! त्वम् (जुषस्व) प्रीयस्व, (प्र वह) देहयात्रां प्रकर्षेण वह। हे (शूर) वीर, हे (हरिह) ज्ञानेन्द्रियकर्मेन्द्रियाभ्यां व्यवहर्तः ! [हरिभ्यां ज्ञानकर्मेन्द्रियाभ्यां हन्ति गच्छति व्यवहरतीति हरिहा, तत्संबुद्धौ।] त्वम् (आ याहि) आगच्छ। त्वम् (सुतस्य) अभिषुतस्य वीररसस्य (पिब) पानं कुरु। (मतिः न) मेधावी पुरुष इव। [मतिरिति मेधाविनाम। निघं० ३।१५।] (चारुः) श्रेष्ठः त्वम् (मदाय) उत्साहाय (मधोः) मधुरस्य भक्तिरसस्य (चकानः) कामयमानः भव ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
मनुष्यस्यात्मा वीररसं पीत्वोत्साहवान् भूत्वा भक्तिरसतरङ्गैस्तरङ्गितो भूत्वा कठिनतमान्यपि कार्याणि कर्तुं शक्नोति ॥१॥
Subject
अथ जीवात्मविषय उच्यते।
Footnote
१. अथ० २।५।१, ‘हरिह’ ‘मतिर्न’ इत्यत्र क्रमेण ‘हरिभ्या॑म्’ ‘म॒तेरि॒ह’ इति पाठः।