Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 951

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣡न्द्रा꣢य नू꣣न꣡म꣢र्चतो꣣क्था꣡नि꣢ च ब्रवीतन । सु꣣ता꣡ अ꣢मत्सु꣣रि꣡न्द꣢वो꣣ ज्ये꣡ष्ठं꣢ नमस्यता꣣ स꣡हः꣢ ॥९५१॥

इ꣡न्द्रा꣢꣯य । नू꣣न꣢म् । अ꣣र्चत । उक्था꣡नि꣢ । च꣣ । ब्रवीतन । ब्रवीत । न । सुताः꣡ । अ꣡मत्सुः । इ꣡न्द꣢꣯वः । ज्ये꣡ष्ठ꣢꣯म् । न꣣मस्यत । स꣡हः꣢꣯ ॥९५१॥

Mantra without Swara
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन । सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥

इन्द्राय । नूनम् । अर्चत । उक्थानि । च । ब्रवीतन । ब्रवीत । न । सुताः । अमत्सुः । इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥९५१॥

Samveda - Mantra Number : 951
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! यूयम् (इन्द्राय) स्वान्तरात्मने (नूनम्) अवश्यम् (अर्चत) स्तुत, (उक्थानि च) उद्बोधनगीतानि च (ब्रवीतन) उच्चारयत। (सुताः) प्रेरिताः (इन्दवः) वीररसाः भक्तिरसाश्च, तम् (अमत्सुः) हर्षयेयुः उत्साहयेयुः। [मदी हर्षे, लिङर्थे लुङ्।] अस्य इन्द्रस्य जीवात्मनः (ज्येष्ठम्) वृद्धतमम् (सहः) बलम्, यूयम् (नमस्यत) प्रशंसत ॥३॥२
Essence
मनुष्यस्याऽऽत्मनि महद् बलं निहितमस्ति, तमुद्बोध्य प्रभुभक्त्या च संमार्ज्य सर्वाणि कार्याणि साद्धुं शक्यन्ते ॥३॥
Subject
अथ पुनर्जीवात्मोद्बोधनविषयमाह।
Footnote
१. ऋ० १।८४।५। २. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं सभाध्यक्षसेनाध्यक्षविषये व्याख्यातवान्।