Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 950

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
न꣢ कि꣣ष्ट्व꣢द्र꣣थी꣡त꣢रो꣣ ह꣢री꣣ य꣡दि꣢न्द्र꣣ य꣡च्छ꣢से । न꣢ कि꣣ष्ट्वा꣡नु꣢ म꣣ज्म꣢ना꣣ न꣢ किः꣣ स्व꣡श्व꣢ आनशे ॥९५०॥

न । किः꣣ । त्व꣢त् । र꣣थी꣡त꣢रः । हरी꣢꣯इ꣡ति꣢ । यत् । इ꣣न्द्र । य꣡च्छ꣢꣯से । न । किः꣣ । त्वा । अ꣡नु꣢꣯ । म꣣ज्म꣡ना꣢ । न । किः꣣ । स्व꣡श्वः꣢꣯ । सु꣣ । अ꣡श्वः꣢꣯ । आ꣡नशे ॥९५०॥

Mantra without Swara
न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे । न किष्ट्वानु मज्मना न किः स्वश्व आनशे ॥

न । किः । त्वत् । रथीतरः । हरीइति । यत् । इन्द्र । यच्छसे । न । किः । त्वा । अनु । मज्मना । न । किः । स्वश्वः । सु । अश्वः । आनशे ॥९५०॥

Samveda - Mantra Number : 950
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविद्रावक जीवात्मन् ! (न किः) न कोऽपि (त्वत्) त्वदपक्षेया (रथीतरः) अतिशयेन प्रशस्तः रथारोही अस्ति, (यत्) यस्मात्, त्वम् (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (यच्छसे) देहरथे नियन्त्रयसि। (न किः) न कश्चित् (त्वा) त्वाम् (मज्मना) बलेन। [मज्म इति बलनाम। निघं० २।९।] (अनु)अनुकरोति। (न किः) नैव कश्चित् (स्वश्वः) शोभनाश्वः अपि (आनशे) त्वां व्याप्नोति, त्वत्तुल्योऽस्तीति भावः ॥२॥२
Essence
प्रोद्बोधितो जीवात्मा यदा वीररसं स्वात्मनि सञ्चारयति तदा न कोऽप्यन्यस्तत्तुल्यतां कर्त्तुमर्हति ॥२॥
Subject
अथ पुनर्जीवात्मा सम्बोध्यते।
Footnote
१. ऋ० १।८४।६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभाध्यक्षसेनाध्यक्षविषये व्याख्यातवान्।