Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 95

1875 Mantra
Devata- अग्निः Rishi- पायुर्भारद्वाजः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
प्र꣡त्य꣢ग्ने꣣ ह꣡र꣢सा꣣ ह꣡रः꣢ शृणा꣣हि꣢ वि꣣श्व꣢त꣣स्प꣡रि꣢ । या꣣तुधा꣡न꣢स्य र꣣क्ष꣢सो꣣ ब꣢लं꣣꣬ न्यु꣢꣯ब्ज वी꣣꣬र्यम्꣢꣯ ॥९५॥

प्र꣡ति꣢꣯ । अ꣣ग्ने । ह꣡र꣢꣯सा । ह꣡रः꣢꣯ । शृ꣣णाहि꣢ । वि꣣श्व꣡तः꣢ । प꣡रि꣢꣯ । या꣣तुधा꣡न꣢स्य । या꣣तु । धा꣡न꣢꣯स्य । र꣣क्ष꣡सः꣢ । ब꣡ल꣢꣯म् । नि । उ꣣ब्ज । वी꣣र्य꣢꣯म् ॥९५॥

Mantra without Swara
प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बलं न्युब्ज वीर्यम् ॥

प्रति । अग्ने । हरसा । हरः । शृणाहि । विश्वतः । परि । यातुधानस्य । यातु । धानस्य । रक्षसः । बलम् । नि । उब्ज । वीर्यम् ॥९५॥

Samveda - Mantra Number : 95
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) ज्योतिर्मय परमेश्वर, मदीय अन्तरात्मन्, राजन्, सेनापते आचार्य वा ! त्वम् (यातुधानस्य) यातनाऽऽधायकस्य, पीडकस्य (रक्षसः) पापरूपस्य राक्षसस्य, पापात्मनः दुष्टशत्रोर्वा (बलम्) सैन्यम्, (वीर्यम्) पराक्रमं च (न्युब्ज२) अधोमुखं पातय, निर्मूलय। निपूर्वः उब्ज आर्जवे धातुरधोमुखीकरणे वर्तते। (विश्वतः परि) सर्वतः। परिः पञ्चम्यर्थानुवादी। तस्य (हरः) हरणसामर्थ्यं, क्रोधं, तेजो वा। हृञ् हरणे, असुन्। हरः इति क्रोधनाम। निघं० २।१–३। ज्योती रज उच्यते इति निरुक्तम्। ४।१९।३९। (हरसा) स्वकीयेन हरणसामर्थ्येन, मन्युनाम्ना ख्यातेन क्रोधेन, तेजसा वा (प्रतिशृणाहि) प्रतिजहि।  हिंसायाम्, क्र्यादिः। शृणीहि इति प्राप्ते ईत्वाभावश्छान्दसः ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥
Essence
सर्वेषां मनुष्याणां कर्तव्यमस्ति यत्ते परमेश्वरस्योपासनेन, स्वान्तरात्मनः प्रबोधनेन, नृपतेः सेनापतेश्च साहाय्येन, गुरूणां च सदुपदेशश्रवणेन स्वहृदयात् समाजाच्च सर्वाणि पापानि, राष्ट्रस्य सर्वान् रिपूंश्च निर्मूलयेयुः ॥५॥
Subject
अथ रक्षसां विनाशाय परमेश्वरो, जीवात्मा, नृपतिः सेनापतिराचार्यश्च प्रार्थ्यते।
Footnote
१. ऋ० १०।८७।२५, देवता अग्नी रक्षोहा। शृणीहि विश्वतः प्रति, बलं विरुज वीर्यम् इति द्वितीय-तृतीय-पादयोः पाठः। २. न्युब्ज आत्मीयेन बलेन ऋजुं कुरु—इति वि०। न्युब्ज नितरां बाधस्व, उब्जतिर्वधकर्मा—इति भ०। निःशेषेण रुज भञ्जयेत्यर्थः—इति सा०।