Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 949

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣣म꣡मि꣢न्द्र सु꣣तं꣡ पि꣢ब꣣ ज्ये꣢ष्ठ꣣म꣡म꣢र्त्यं꣣ म꣡द꣢म् । शु꣣क्र꣡स्य꣢ त्वा꣣꣬भ्य꣢꣯क्षर꣣न्धा꣡रा꣢ ऋ꣣त꣢स्य꣣ सा꣡द꣢ने ॥९४९॥

इ꣣म꣢म् । इ꣣न्द्र । सुत꣢म् । पि꣣ब । ज्ये꣡ष्ठ꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । म꣡द꣢꣯म् । शु꣣क्र꣡स्य꣢ । त्वा꣣ । अभि꣢ । अ꣣क्षरन् । धा꣣राः । ऋ꣣त꣡स्य꣢ । सा꣡द꣢꣯ने ॥९४९॥

Mantra without Swara
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥

इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । अ । मर्त्यम् । मदम् । शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सादने ॥९४९॥

Samveda - Mantra Number : 949
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविदारणसमर्थ जीवात्मन् ! त्वम् (इमम्) एतम् (सुतम्) अभिषुतम्, (ज्येष्ठम्)अतिशयेन प्रशस्यम्, (अमर्त्यम्) अविनाश्यम् (मदम्) उत्साहप्रदं वीररसं भक्तिरसं च (पिब) आस्वादय। (ऋतस्य सादने) सत्यस्य सदने तव हृदये (शुक्रस्य) प्रदीप्तस्य वीररसस्य पवित्रस्य भक्तिरसस्य च (धाराः) प्रवाहाः (त्वा अभि) त्वां प्रति (अक्षरन्) क्षरन्ति ॥१॥२
Essence
स्वान्तरात्मानं वीरतातरङ्गैर्भक्तिरसतरङ्गैश्चाप्लाव्य दुर्दान्तान् दुर्गुणदुर्व्यसनादीन् दुष्टजनांश्च विद्राव्य देवासुरसंग्रामे विजयः सर्वैः प्राप्तव्यः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३४४ क्रमाङ्के उपास्योपासकविषये गुरुशिष्यविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।
Footnote
१. ऋ० १।८४।४, साम० ३४४। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सेनाध्यक्षविषये व्याख्यातः।