Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 948

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣यं꣡ विश्वा꣢꣯ अ꣣भि꣢꣫ श्रियो꣣ऽग्नि꣢र्दे꣣वे꣡षु꣢ पत्यते । आ꣢꣫ वाजै꣣रु꣡प꣢ नो गमत् ॥९४८॥

अ꣣य꣢म् । वि꣡श्वाः꣢꣯ । अ꣣भि꣢ । श्रि꣡यः꣢꣯ । अ꣣ग्निः꣢ । दे꣣वे꣡षु꣢ । प꣣त्यते । आ꣢ । वा꣡जैः꣢꣯ । उ꣡प꣢꣯ । नः । गमत् ॥९४८॥

Mantra without Swara
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । आ वाजैरुप नो गमत् ॥

अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते । आ । वाजैः । उप । नः । गमत् ॥९४८॥

Samveda - Mantra Number : 948
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एषः (अग्निः) अग्रनायकः परमेश्वरः (देवेषु) उपासकेषु सदाचारिषु विद्वत्सु (विश्वाः श्रियः) सर्वाः आध्यात्मिकीः बाह्याश्च सम्पदः (अभि पत्यते) अभि प्रापयति। [पत्लृ गतौ भ्वादिः, विकरणव्यत्ययः, लुप्तणिच्कः प्रयोगः।] सः (वाजैः) दिव्यैः ऐश्वर्यैः बलैश्च सह (नः) अस्मान् (उप गमत्) उपगच्छन्तु ॥३॥
Essence
परमेश्वरोपासकः सर्वविधानि भौतिकान्याध्यात्मिकानि बलान्यैश्वर्याणि च स्वपुरुषार्थेन प्राप्तुमर्हति ॥३॥
Subject
अथोपासितः परमेश्वरोऽस्मभ्यं किं करोतीत्याह।
Footnote
१. ऋ० ८।१०२।९।