Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 947

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣यं꣡ यथा꣢꣯ न आ꣣भु꣢व꣣त्त्व꣡ष्टा꣢ रू꣣पे꣢व꣣ त꣡क्ष्या꣢ । अ꣣स्य꣢꣫ क्रत्वा꣣ य꣡श꣢स्वतः ॥९४७॥

अ꣣य꣢म् । य꣡था꣢꣯ । नः꣣ । आ꣣भु꣡व꣢त् । आ꣣ । भु꣡व꣢꣯त् । त्व꣡ष्टा꣢꣯ । रू꣣पा꣢ । इ꣣व । त꣡क्ष्या꣢꣯ । अ꣣स्य꣢ । क्र꣡त्वा꣢꣯ । य꣡श꣢꣯स्वतः ॥९४७॥

Mantra without Swara
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या । अस्य क्रत्वा यशस्वतः ॥

अयम् । यथा । नः । आभुवत् । आ । भुवत् । त्वष्टा । रूपा । इव । तक्ष्या । अस्य । क्रत्वा । यशस्वतः ॥९४७॥

Samveda - Mantra Number : 947
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयमग्निं परमेश्वरमभिमुखाः भवेम (यथा) येन (अयम्) एषः परमेश्वरः (नः) अस्मान्, अस्माकं जीवनानीत्यर्थः (आभुवत्) व्याप्नुयात्। कथमिव ? (त्वष्टा) वर्धकिः (तक्ष्या रूपा इव) तक्षणीयानि रूपाणि यथा व्याप्नोति तथा। [शेश्छन्दसि बहुलम्। अ० ६।१।७० इति शेर्लोपः।] (यशस्वतः) कीर्तिमतः (अस्य) अग्नेः परमेश्वरस्य (क्रत्वा) क्रतुना प्रज्ञया कर्मणा वा, वयमनुगृहीताः स्याम ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
जगदीश्वरो यद्यस्माकं जीवनानि व्याप्नोति तर्हि सदैव सदसद्विवेकिनः पुण्यकर्माणः सन्तो वयं कीर्तिभाजो भवामः ॥२॥
Subject
अथ कुतो वयं परमेश्वरस्याभिमुखाः स्यामेत्याह।
Footnote
१. ऋ० ८।१०२।८।