Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 946

1875 Mantra
Devata- अग्निः Rishi- प्रयोगो भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्निं꣡ वो꣢ वृ꣣ध꣡न्त꣢मध्व꣣रा꣡णां꣢ पुरू꣣त꣡म꣢म् । अ꣢च्छा꣣ न꣢प्त्रे꣣ स꣡ह꣢स्वते ॥९४६॥

अ꣣ग्नि꣢म् । वः꣣ । वृध꣡न्त꣢म् । अ꣣ध्वरा꣡णा꣢म् । पु꣣रूत꣡म꣢म् । अ꣡च्छ꣢꣯ । न꣡प्त्रे꣢꣯ । स꣡ह꣢꣯स्वते ॥९४६॥

Mantra without Swara
अग्निं वो वृधन्तमध्वराणां पुरूतमम् । अच्छा नप्त्रे सहस्वते ॥

अग्निम् । वः । वृधन्तम् । अध्वराणाम् । पुरूतमम् । अच्छ । नप्त्रे । सहस्वते ॥९४६॥

Samveda - Mantra Number : 946
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जनाः। यूयम् (वः) युष्मान् (वृधन्तम्) वर्धयन्तम्, (अध्वराणाम्) यज्ञानाम्, परोपकाराय अनुष्ठीयमानानां कर्मणाम् (पुरूतमम्) पूरयितृतमम् (अग्निम्) ज्ञानप्रकाशकं परमेश्वरम्, उपाध्वम् इति शेषः। (नप्त्रे) न पातयित्रे, प्रत्युत उत्थापयित्रे, (सहस्वते) बलवते तस्मै अग्नये परमात्मने (अच्छ) आभिमुख्यं भजत ॥१॥
Essence
सर्वैः शुभकर्मसूत्साहयिता दुष्कर्मभ्यो निवारयिता बलवानुत्कर्षकरो बलप्रदः परमेश्वरो नित्यमुपासनीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २१ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र तस्मिन्नेव विषये प्रकारान्तरेण व्याख्यायते।
Footnote
१. ऋ० ८।१०२।७, साम० २१।