Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 945

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्रा꣡वी꣢विपद्वा꣣च꣢ ऊ꣣र्मिं꣢꣫ न सिन्धु꣣र्गि꣢र꣣ स्तो꣢मा꣣न्प꣡व꣢मानो मनी꣣षाः꣢ । अ꣣न्तः꣡ पश्य꣢꣯न्वृ꣣ज꣢ने꣣मा꣡व꣢रा꣣ण्या꣡ ति꣢ष्ठति वृष꣣भो꣡ गोषु꣢꣯ जा꣡न꣢न् ॥९४५॥

प्र । अ꣣वीविपत् । वाचः꣢ । ऊ꣣र्मि꣢म् । न । सि꣡न्धुः꣢꣯ । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯न् । प꣡व꣢꣯मानः । म꣣नीषाः꣢ । अ꣣न्त꣡रिति꣢ । प꣡श्य꣢꣯न् । वृ꣣ज꣡ना꣢ । इ꣣मा꣢ । अ꣡वरा꣢꣯णि । आ । ति꣣ष्ठति । वृषभः꣢ । गो꣡षु꣢꣯ । जा꣣न꣢म् ॥९४५॥

Mantra without Swara
प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः । अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥

प्र । अवीविपत् । वाचः । ऊर्मिम् । न । सिन्धुः । गिरः । स्तोमान् । पवमानः । मनीषाः । अन्तरिति । पश्यन् । वृजना । इमा । अवराणि । आ । तिष्ठति । वृषभः । गोषु । जानम् ॥९४५॥

Samveda - Mantra Number : 945
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सिन्धुः) समुद्रः (ऊर्मिं न) तरङ्गं यथा प्रेरयति तथा उपासकः परमात्मानं प्रति (वाचः) स्तुतिगिरः (प्रावीविपत्२) प्रेरयति। परमात्मा च तस्य (गिरः) स्तुतिवाचः (स्तोमान्) समूहान् (मनीषाः) धियश्च (पवमानः) पवित्रीकुर्वन् भवति। ततः (वृषभः) स्तुतिवर्षकः उपासकः (गोषु जानन्३) गवाम् इन्द्रियाणां विषये जानन् इन्द्रियाणि पराञ्चि भवन्तीति जानन्नित्यर्थः। [पराञ्चि रवानि व्यतृणत् स्वयम्भूरित्युक्तेः। कठ० उ० २।४।१।] (अन्तः पश्यन्) अन्तर्दृष्टिं कुर्वन् (इमा) इमानि (अवराणि) बाह्यानि (वृजना४) वृजनानि विषयभोगानां बलानि। [वृजनमिति बलनाम निघं० २।९।] (आतिष्ठति) आक्रम्य तिष्ठति ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
मनुष्या भोगविलासेभ्यो मनो निवर्त्यान्तर्दृष्टिं विधाय परमात्मानमुपास्याऽऽनन्दिनो भवन्तु ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मनो ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथोपास्योपासकविषयमाह।
Footnote
१. ऋ० ९।९६।७, ‘गिर स्तोमान्’ इत्यत्र ‘गिरः॒ सोमः॒’ इति पाठः। २. प्रावीविपत् प्रकर्षेण वेपयति प्रेरयति—इति सा०। ३. गोषु जानन्—गोशब्देन रश्मयः, ता एव नाड्यो गृह्यन्ते। वृषभो वर्षिता। गोषु अप्सु नाडीषु जानन्—इति वि०। ४. वृजना वृजनानि छिद्राणि शरीरावस्थितानि—इति वि०।