Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 943

1875 Mantra
Devata- पवमानः सोमः Rishi- प्रतर्दनो दैवोदासिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सो꣡मः꣢ पवते जनि꣣ता꣡ म꣢ती꣣नां꣡ ज꣢नि꣣ता꣢ दि꣣वो꣡ ज꣢नि꣣ता꣡ पृ꣢थि꣣व्याः꣢ । ज꣣निता꣡ग्नेर्ज꣢꣯नि꣣ता꣡ सूर्य꣢꣯स्य जनि꣣ते꣡न्द्र꣢स्य जनि꣣तो꣡त विष्णोः꣢꣯ ॥९४३॥

सो꣡मः꣢꣯ । प꣣वते । जनिता꣢ । म꣣तीना꣢म् । ज꣣निता꣢ । दि꣣वः꣢ । ज꣣निता꣢ । पृ꣣थिव्याः꣢ । ज꣣निता꣢ । अ꣣ग्नेः꣢ । ज꣣निता꣢ । सू꣡र्य꣢꣯स्य । ज꣣निता꣢ । इ꣡न्द्र꣢꣯स्य । ज꣣नि꣢ता । उ꣣त꣢ । वि꣡ष्णोः꣢꣯ ॥९४३॥

Mantra without Swara
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥

सोमः । पवते । जनिता । मतीनाम् । जनिता । दिवः । जनिता । पृथिव्याः । जनिता । अग्नेः । जनिता । सूर्यस्य । जनिता । इन्द्रस्य । जनिता । उत । विष्णोः ॥९४३॥

Samveda - Mantra Number : 943
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोमः) सकलजगदुत्पादकः परमेश्वरः (पवते) सर्वत्र गच्छति, सर्वान्तर्यामी अस्ति। [पवते गतिकर्मा निघं० २।१४] यः (मतीनाम्) बुद्धीनां (जनिता) जनयिता, (दिवः) द्युलोकस्य (जनिता) जनयिता, (पृथिव्याः) पृथिवीलोकस्य (जनिता) जनयिता, (अग्नेः) वह्नेः(जनिता) जनयिता, (सूर्यस्य) आदित्यस्य (जनिता)जनयिता, (इन्द्रस्य) विद्युतः (जनिता) जनयिता, (उत) अपि च (विष्णोः) व्यापकस्य सूत्रात्मनः प्राणस्य (जनिता) जनयिता वर्तते ॥१॥
Essence
परमात्मनैवेमानि लोकलोकान्तराणि तत्रस्थाः सर्वेऽद्भुताः पदार्थाश्च रचिताः सन्ति, यदुत्पद्यते तस्य कर्त्ताऽवश्यमस्तीति नियमाद्, अस्मादृशां च जगत्कर्तृत्वसामर्थ्याभावात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५२७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।
Footnote
१. ऋ० ९।९६।५, साम० ५२७।