Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 942

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣡स꣢र्जि क꣣ल꣡शा꣢ꣳ अ꣣भि꣢ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । पु꣣नानो꣡ वाचं꣢꣯ ज꣣न꣡य꣢न्नसिष्यदत् ॥९४२॥

अ꣡स꣢꣯र्जि । क꣣ल꣡शा꣢न् । अ꣣भि꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣ज꣢युः । पु꣣नानः꣢ । वा꣡च꣢꣯म् । ज꣣न꣡य꣢न् । अ꣣सिष्यदत् ॥९४२॥

Mantra without Swara
असर्जि कलशाꣳ अभि मीढ्वान्त्सप्तिर्न वाजयुः । पुनानो वाचं जनयन्नसिष्यदत् ॥

असर्जि । कलशान् । अभि । मीढ्वान् । सप्तिः । न । वाजयुः । पुनानः । वाचम् । जनयन् । असिष्यदत् ॥९४२॥

Samveda - Mantra Number : 942
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मीढ्वान्) आनन्दरसस्य सेक्ता। [मिह सेचने, लिटः क्वसुः।] (वाजयुः) वाजम् आत्मबलं स्तोतॄणां कामयमानः। [छन्दसि परेच्छायां क्यच्, ‘क्याच्छन्दसि’ इति उः प्रत्ययः।] पवमानः सोमः पावकः रसनिधिः परमेश्वरः (कलशान् अभि) अन्नमय-प्राणमय-मनोमयादिकोशान् अभिलक्ष्य (असर्जि) विसृष्टोऽस्ति, (सप्तिः न) यथा अश्वः संग्राममभिलक्ष्य विसृज्यते तद्वत्। (पुनानः) पवित्रतां सम्पादयन् सः (असिष्यदत्) अन्तरात्मं स्यन्दते ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
परमात्मोपासनेनानन्दरस आत्मबलमन्तःकरणस्य पावित्र्यमात्मो- त्थानसन्देशश्च प्राप्यते ॥३॥
Subject
अथ पुनः परमात्मविषयमाह।
Footnote
१. ऋ० ९।१०६।१२, ‘मी॒ळहे सप्ति॒र्न वा॑ज॒युः’ इति द्वितीयः पादः।