Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 941

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
धी꣣भि꣡र्मृ꣢जन्ति वा꣣जि꣢नं꣣ व꣢ने꣣ क्री꣡ड꣢न्त꣣म꣡त्य꣢विम् । अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣢ म꣣त꣢यः꣣ स꣡म꣢स्वरन् ॥९४१॥

धी꣣भिः꣢ । मृ꣣जन्ति । वाजि꣡न꣢म् । व꣡ने꣢꣯ । क्री꣡ड꣢꣯न्तम् । अ꣡त्य꣢꣯विम् । अ꣡ति꣢꣯ । अ꣣विम् । अभि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । म꣣त꣡यः꣢ । सम् । अ꣣स्वरन् ॥९४१॥

Mantra without Swara
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम् । अभि त्रिपृष्ठं मतयः समस्वरन् ॥

धीभिः । मृजन्ति । वाजिनम् । वने । क्रीडन्तम् । अत्यविम् । अति । अविम् । अभि । त्रिपृष्ठम् । त्रि । पृष्ठम् । मतयः । सम् । अस्वरन् ॥९४१॥

Samveda - Mantra Number : 941
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
उपासकाः जनाः (वाजिनम्) बलवन्तम्, (वने क्रीडन्तम्) ब्रह्माण्डरूपे विपिने क्रीडां कुर्वन्तम्, (अत्यविम्) अविं बुद्धिम् अतिक्रम्य स्थितम् अबुद्धिगम्यं तं पवमानं सोमं पावकं परमात्मानम् (धीभिः) ध्यानवृत्तिभिः (मृजन्ति) स्वाभ्यन्तरे अलङ्कुर्वन्ति। ते (मतयः) मननशीलाः उपासकाः (त्रिपृष्ठम्) त्रीणि पृष्ठानि पृथिव्यन्तरिक्षद्युलोकाख्यानि यद्वा आत्ममनःप्राणाख्यानि निवासभूतानि यस्य तादृशम् तम् परमात्मानम् (अभि) अभिलक्ष्य (समस्वरन्)संगत्य स्तुतिगीतानि गायन्ति ॥२॥
Essence
यः परमेश्वरश्चेतनाचेतनैः परिपूर्णं ब्रह्माण्डवनं निर्माय तत्र क्रीडां कुर्वन् जगत् सञ्चालयति तं सर्वान्तर्यामिणं स्वात्मनोऽलङ्कारं कृत्वा योगिनो जना यदा तं ध्यायन्ति तदा ते सर्वाः सिद्धीर्लभन्ते ॥२॥
Subject
अथ परमात्मस्तुतिविषयमाह।
Footnote
१. ऋ० ९।१०६।११, ‘मृजन्ति’ इत्यत्र ‘हि॑न्वन्ति’ इति पाठः।