Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 940

1875 Mantra
Devata- पवमानः सोमः Rishi- अग्निश्चाक्षुषः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
सो꣡मः꣢ पुना꣣न꣢ ऊ꣣र्मि꣢꣫णाव्यं꣣ वा꣢रं꣣ वि꣡ धा꣢वति । अ꣡ग्रे꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् ॥९४०॥

सो꣡मः꣢꣯ । पु꣣नानः꣢ । ऊ꣣र्मि꣡णा꣢ । अ꣡व्य꣢꣯म् । वा꣡र꣢꣯म् । वि । धा꣣वति । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । प꣡व꣢꣯मानः । क꣡नि꣢꣯क्रदत् ॥९४०॥

Mantra without Swara
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति । अग्रे वाचः पवमानः कनिक्रदत् ॥

सोमः । पुनानः । ऊर्मिणा । अव्यम् । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत् ॥९४०॥

Samveda - Mantra Number : 940
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सोमः) रसनिधिः परमेश्वरः (ऊर्मिणा) आनन्दरसतरङ्गेण (पुनानः) पवित्रतामापादयन् (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) वरणीयम् आत्मानम् (वि धावति) वेगेन गच्छति। सः (वाचः) स्तुतिगिरः (अग्रे) पूर्वमेव (पवमानः) प्रवहन् (कनिक्रदत्) कलकलशब्दं कुर्वन्, भवति इति शेषः ॥१॥ अत्र ब्रह्मानन्दरसप्रवाहे कारणभूतायाः स्तुतिवाचः पूर्वमेव ब्रह्मानन्दप्रवाहवर्णनात् कारणात् प्राक् कार्योदयरूपोऽतिशयोक्ति- रलङ्कारः। किञ्च वस्तुतः ब्रह्मानन्दप्रवाहे ऊर्मेः कलकलशब्दस्य चाभावात् तद्वर्णनेऽसम्बन्धे सम्बन्धातिशयोक्तिः ॥१॥
Essence
परमात्मध्याने मग्नः स्तोता परमात्मसकाशान्निर्झरन्तीमानन्द- तरङ्गिणीं स्वात्माभ्यन्तरे समाविशन्तीमनुभूय कृतार्थो जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५७२ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्र स एव विषयः प्रकारान्तरेण प्रदर्श्यते।
Footnote
१. ऋ० ९।१०६।१०, ‘ऊ॒र्मिणाव्यो॒’ इति पाठः। साम० ५७२।