Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 94

1875 Mantra
Devata- अग्निः Rishi- सोमाहुतिर्भार्गवः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
द꣣धन्वे꣢ वा꣣ य꣢दी꣣म꣢नु꣣ वो꣢च꣣द्ब्र꣢꣫ह्मेति꣣ वे꣢रु꣣ त꣢त् । प꣢रि꣣ वि꣡श्वा꣢नि꣣ का꣡व्या꣢ ने꣣मि꣢श्च꣣क्र꣡मि꣢वाभुवत् ॥९४॥

द꣣धन्वे꣢ । वा꣣ । य꣢त् । ई꣣म् । अ꣡नु꣢꣯ । वो꣡च꣢꣯त् । ब्र꣡ह्म꣢꣯ । इ꣡ति꣢꣯ । वेः । उ꣣ । त꣢त् । प꣡रि꣢꣯ । वि꣡श्वा꣢꣯नि꣣ । का꣡व्या꣢꣯ । ने꣣मिः꣢ । च꣣क्र꣢म् इ꣣व । अभुवत् ॥९४॥

Mantra without Swara
दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् । परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् ॥

दधन्वे । वा । यत् । ईम् । अनु । वोचत् । ब्रह्म । इति । वेः । उ । तत् । परि । विश्वानि । काव्या । नेमिः । चक्रम् इव । अभुवत् ॥९४॥

Samveda - Mantra Number : 94
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा, उपासकः (ईम्) एनम् परमात्माग्निम्। ईम् एनम्। निरु० १०।४५। (अनु दधन्वे) आनुकूल्येन स्वान्तःकरणे धारयति। धवि गतौ धातोर्लडर्थे लिटि रूपम्, व्यत्ययेनात्मनेपदम्। (वा) किञ्च। वा इति समुच्चये। अथापि समुच्चयार्थे भवति। निरु० १।५। (ब्रह्म इति) इदं साक्षाद् ब्रह्म वर्तते इति (वोचत्) वर्णयति। वच धातोर्लडर्थे लुङ्, अडागमाभावश्छान्दसः। (तत् उ) तदैव, स तम् (वेः२) जानाति। वी गत्यादिषु, लडर्थे लङ्, अडभावः। यः परमात्माग्निः (विश्वानि) समस्तानि (काव्या) काव्यानि, वेदकाव्यानि सृष्टिकाव्यानि वा (परि अभुवत्) पर्यभवत्, परितो व्याप्नोति। भू धातोर्लङि गुणं बाधित्वा उवङादेशश्छान्दसः। (नेमिः) रथचक्रस्य परिधिः (चक्रम् इव) रथचक्रं यथा परितो व्याप्नोति ॥४॥ नेमिश्चक्रमिव इत्यत्रोपमालङ्कारः ॥४॥
Essence
यदा परमात्मध्यानरतो योगी परमात्मानं धारणाध्यानसमाधिमार्गेण स्वहृदयाभ्यन्तरे सम्यग् धारयति, हस्तामलकवच्च तमनुभवन्, एतद् वै ब्रह्म यदहं साक्षात्करोमि इति वक्तुं शक्नोति, तदैव वस्तुतस्तेन ब्रह्म ज्ञातमिति मन्तव्यम् ॥४॥
Subject
अथ कः परमेश्वरं जानातीत्याह।
Footnote
१. ऋ० २।५।३, ब्रह्मेति, भुवत् इत्यत्र क्रमेण ब्रह्माणि, भवत् इति पाठः। २. वेः। मध्यमपुरुषैकवचनमिदं प्रथमपुरुषैकवचनस्य स्थाने द्रष्टव्यम्। वेत्ति जानातीत्यर्थः—इति वि०।