Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 939

1875 Mantra
Devata- पवमानः सोमः Rishi- उरुराङ्गिरसः Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
ये꣢ना꣣ न꣡व꣢ग्वा द꣣ध्य꣡ङ्ङ꣢पोर्णु꣣ते꣢꣫ येन꣣ वि꣡प्रा꣢स आपि꣣रे꣢ । दे꣣वा꣡ना꣢ꣳ सु꣣म्ने꣢ अ꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢णो꣣ ये꣢न꣣ श्र꣢वा꣣ꣳस्या꣡श꣢त ॥९३९॥

ये꣡न꣢꣯ । न꣡व꣢꣯ग्वा । न꣡व꣢꣯ । ग्वा꣣ । दध्य꣢ङ् । अ꣣पोर्णुते꣢ । अ꣣प । ऊर्णुते꣢ । ये꣡न꣢꣯ । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । आपिरे꣢ । दे꣣वा꣡ना꣢म् । सु꣣म्ने꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । ये꣡न꣢꣯ । श्र꣡वा꣢꣯ꣳसि । आ꣡श꣢꣯त ॥९३९॥

Mantra without Swara
येना नवग्वा दध्यङ्ङपोर्णुते येन विप्रास आपिरे । देवानाꣳ सुम्ने अमृतस्य चारुणो येन श्रवाꣳस्याशत ॥

येन । नवग्वा । नव । ग्वा । दध्यङ् । अपोर्णुते । अप । ऊर्णुते । येन । विप्रासः । वि । प्रासः । आपिरे । देवानाम् । सुम्ने । अमृतस्य । अ । मृतस्य । चारुणः । येन । श्रवाꣳसि । आशत ॥९३९॥

Samveda - Mantra Number : 939
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(येन) येन (पवमानेन) सोमेन पवित्रकर्ता विद्यारसागारेण आचार्येण, (नवग्वा)नवीनशिक्षाप्राप्तः२ नवस्नातकः। [नवग्वाः नवगतयो वा नवीनगतयो वा निरु० ११।१९।] (दध्यङ्) धारकान् गुणान् प्राप्तः३ सन् (अपोर्णुते) अविद्याया आवरणमपनयति, (येन) येन आचार्येण उपदिष्टाः (विप्रासः) मेधाविनो ब्राह्मणाः (आपिरे) सच्चारित्र्यशिक्षां प्राप्नुवन्ति, (येन) येन आचार्येण लब्धविद्याः शिष्याः (श्रवांसि) यशांसि (आशत) लभन्ते,स आचार्यः स्वयम् (देवानाम्) दिव्यगुणानाम्, (चारुणः) रमणीयस्य (अमृतस्य) मोक्षस्य च (सुम्ने) सुखे निवसति ॥२॥
Essence
सुयोग्येनाचार्येण शिक्षिताश्छात्रा विद्वांसः सच्चरित्रा दिव्यगुणवन्तो जीवन्मुक्ताश्च भूत्वा सर्वत्र विद्यासच्चारित्र्यादीन् गुणान् प्रसारयन्तः कीर्तिमन्तो जायन्ते ॥२॥
Subject
अथाचार्यस्य महत्त्वमाह।
Footnote
१. ऋ० ९।१०८।४, ‘नव॑ग्वो’, ‘श्रवां॑स्यान॒शुः’ इति पाठः। २. नवग्वाः नवीनशिक्षाविद्याप्राप्ताः इति ऋ० १।३३।६ भाष्ये द०। ३. दध्यङ् दधाते यैस्ते दधयः सद्गुणास्तानञ्चति प्रापयति वा सः इति ऋ० १।८०।१६ भाष्ये द०।