Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 938

1875 Mantra
Devata- पवमानः सोमः Rishi- शक्तिर्वासिष्ठः Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- ऋषभः
Mantra with Swara
त्व꣢ꣳ ह्या꣣꣬३꣱ङ्ग꣡ दै꣢व्य꣣ प꣡व꣢मान꣣ ज꣡नि꣢मानि द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ घो꣣ष꣡य꣢न् ॥९३८॥

त्व꣢म् । हि । अ꣣ङ्ग꣡ । दै꣣व्य । प꣡वमा꣢꣯न । ज꣡नि꣢꣯मानि । द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ । अ꣣ । मृतत्वा꣡य꣢ । घो꣣ष꣡य꣢न् ॥९३८॥

Mantra without Swara
त्वꣳ ह्या३ङ्ग दैव्य पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयन् ॥

त्वम् । हि । अङ्ग । दैव्य । पवमान । जनिमानि । द्युमत्तमः । अमृतत्वाय । अ । मृतत्वाय । घोषयन् ॥९३८॥

Samveda - Mantra Number : 938
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अङ्ग) भद्र, (दैव्य) विदुषः शिष्य ! [देवाद् विदुषः गुरोरागतः दैव्यः।] (पवमान) चित्तशुद्धिप्रदातः आचार्य ! (द्युमत्तमः) अतिशयेन ज्ञानप्रकाशयुक्तः (त्वं हि) त्वं खलु अमृतत्वाय सुखप्रदानाय (जनिमानि) शिष्याणां द्वितीयजन्मानि ब्राह्मणक्षत्रियवैश्यरूपाणि (घोषयन्) विज्ञापयन् भव ॥१॥
Essence
मातापितृसकाशाज्जायमानमेकं जन्म, द्वितीयं च जन्माचार्यसकाशात् प्राप्यते। यदा शिष्या विद्याव्रतस्नातका जायन्ते तदाऽऽचार्यो गुणकर्मानुसारं ब्राह्माणोऽयं क्षत्रियोऽयं वैश्योऽयमिति स्नातकेभ्यो वर्णं प्रयच्छति। तस्मिन् काले प्रथमजन्मना ब्राह्मणोऽपि कश्चित् गुणकर्मनिकषेण क्षत्रियत्वं वैश्यत्वं वा,क्षत्रियोऽपि कश्चिद् ब्राह्मणत्वं वैश्यत्वं वा, वैश्यः शूद्रोऽपि वा कश्चिद् ब्राह्मणत्वं क्षत्रियत्वं वा प्राप्तुमर्हति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५८३ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यशिष्यविषय उपदिश्यते।
Footnote
१. ९।१०८।३, ‘दिव्य’ ‘घोषयन्’ इत्यत्र क्रमेण ‘दैव्या॒’ ‘घो॒षयः॑’ इति पाठः। साम० ५८३ ‘दैव्य’ इत्यत्र ‘दैव्यं’