Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 935

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡रि꣢ प्रि꣣या꣢ दि꣣वः꣢ क꣣वि꣡र्वया꣢꣯ꣳसि न꣣꣬प्त्यो꣢꣯र्हि꣣तः꣢ । स्वा꣣नै꣡र्या꣢ति क꣣वि꣡क्र꣢तुः ॥९३५॥

प꣡रि꣢꣯ । प्रि꣣या꣢ । दि꣣वः꣢ । क꣣विः꣢ । व꣡या꣢꣯ꣳसि । न꣣प्त्योः꣢ । हि꣣तः꣢ । स्वा꣣नैः꣢ । या꣣ति । कवि꣡क्र꣢तुः । क꣣वि꣢ । क्र꣣तुः ॥९३५॥

Mantra without Swara
परि प्रिया दिवः कविर्वयाꣳसि नप्त्योर्हितः । स्वानैर्याति कविक्रतुः ॥

परि । प्रिया । दिवः । कविः । वयाꣳसि । नप्त्योः । हितः । स्वानैः । याति । कविक्रतुः । कवि । क्रतुः ॥९३५॥

Samveda - Mantra Number : 935
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
शिष्याणाम् (नप्त्योः) आत्ममनसोः (हितः) हितकरः, (कविक्रतुः) मेधावी सत्कर्मा च आचार्यः (दिवः) यशसा प्रकाशितस्य गुरुकुलस्य (प्रिया वयांसि) प्रियान् शिष्यान् (स्वानैः) शास्त्रोपदेशकर्तृभिः शब्दैः सह (परियाति) परि प्राप्नोति ॥१॥
Essence
यः स्वयं विद्वान् सदाचारवान् अध्यापनकुशलश्चास्ति स एवाचार्यः शिष्यान् सुयोग्यान् कर्तुं प्रभवति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४७६ क्रमाङ्के परमात्मन आनन्दरसविषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० ९।९।१, ‘सु॒वा॒नो या॑ति’ इति पाठः। साम० ४७६, (ऋषिः) काश्यपोऽसितः।