Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 934

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
इ꣢न्द्रं꣣ त꣡ꣳ शु꣢म्भ पुरुहन्म꣣न्न꣡व꣢से꣣ य꣡स्य꣢ द्वि꣣ता꣡ वि꣢ध꣣र्त्त꣡रि꣢ । ह꣡स्ते꣢न꣣ व꣢ज्रः꣣ प्र꣡ति꣢ धायि दर्श꣣तो꣢ म꣣हा꣢न् दे꣣वो꣡ न सूर्यः꣢꣯ ॥९३४॥

इ꣡न्द्र꣢꣯म् । तम् । शु꣣म्भ । पुरुहन्मन् । पुरु । हन्मन् । अ꣡व꣢꣯से । य꣡स्य꣢꣯ । द्वि꣣ता꣢ । वि꣣ध꣡र्तरि꣢ । वि꣣ । धर्त꣡रि꣢ । ह꣡स्ते꣢꣯न । व꣡ज्रः꣢꣯ । प्र꣡ति꣢꣯ । धा꣣यि । दर्श꣢तः । म꣣हा꣢न् । दे꣣वः꣢ । न । सू꣡र्यः꣢꣯ ॥९३४॥

Mantra without Swara
इन्द्रं तꣳ शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि । हस्तेन वज्रः प्रति धायि दर्शतो महान् देवो न सूर्यः ॥

इन्द्रम् । तम् । शुम्भ । पुरुहन्मन् । पुरु । हन्मन् । अवसे । यस्य । द्विता । विधर्तरि । वि । धर्तरि । हस्तेन । वज्रः । प्रति । धायि । दर्शतः । महान् । देवः । न । सूर्यः ॥९३४॥

Samveda - Mantra Number : 934
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पुरुहन्मन्) बहूनां शत्रूणां हन्तः मानव ! त्वम् (अवसे) प्रगतये (तम्) प्रसिद्धम् (इन्द्रम्) परमवीरं परमेश्वरम् (शुम्भ) स्वात्मनि शोभय, (यस्य विधर्तरि) यस्य विधारके जने (द्विता) द्विधा शक्तिरूत्पद्यते। तेन परमात्मविधारकेण जनेन एकतः (हस्तेन) पाणिना (दर्शतः) दर्शनीयः (वज्रः) आयुधम् (प्रति धायि२) प्रतिधीयते, अपरतश्च सः (देवः सूर्यः न) प्रकाशकः आदित्यः इव (महान्) महिमवान् जायते ॥२॥
Essence
स्वात्मनि परमात्मधारणेन मनुष्ये महद् बलं साहसं तेजो धैर्य शत्रुपराजयसामर्थ्यं चोत्पद्यते ॥२॥ अस्मिन् खण्डे परमात्म-जीवात्मनोरुपास्योपासकयोर्मानवप्रेरणायाश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥
Subject
अथ मानवं प्रेरयति।
Footnote
१. ऋ० ८।७०।२, अथ० २०।९२।१७, १०५।५, सर्वत्र ‘हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः’ इत्युत्तरार्धपाठः। २. हस्तेन वज्रः प्रतिधायि=हस्तेन गृहीतः वज्रः प्रति धायि, धेट् पाने, सर्वप्राणिनां वीर्यं रसं शोणितादि पिबते—इति वि०।