Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 933

1875 Mantra
Devata- इन्द्रः Rishi- पुरुहन्मा आङ्गिरसः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
यो꣡ राजा꣢꣯ चर्षणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भि꣣र꣡ध्रि꣢गुः । वि꣡श्वा꣢सां तरु꣣ता꣡ पृत꣢꣯नानां꣣ ज्ये꣢ष्ठं꣣ यो꣡ वृ꣢त्र꣣हा꣢ गृ꣣णे꣢ ॥९३३॥

यः꣢ । रा꣡जा꣢꣯ । च꣣र्षणीना꣢म् । या꣡ता꣢꣯ । र꣡थे꣢꣯भिः । अ꣡ध्रि꣢꣯गुः । अ꣡ध्रि꣢꣯ । गुः꣣ । वि꣡श्वा꣢꣯साम् । त꣣रुता꣢ । पृ꣡त꣢꣯नानाम् । ज्ये꣡ष्ठ꣢꣯म् । यः । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । गृ꣣णे꣢ ॥९३३॥

Mantra without Swara
यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥

यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिगुः । अध्रि । गुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठम् । यः । वृत्रहा । वृत्र । हा । गृणे ॥९३३॥

Samveda - Mantra Number : 933
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) मम आत्मा (चर्षणीनाम्) मनुष्याणाम् (राजा) सम्राट् अस्ति, किञ्च (अध्रिगुः) अधृतगमनः, अवारितक्रियः यः (रथेभिः) देहरथैः (याता) गन्ता भवति, अपि च यः (विश्वासाम्) सर्वासाम् (पृतनानाम्) आन्तरिकीणां बाह्यानां च रिपुसेनानाम् (तरुता) तर्ता जायते, (यः) यश्च (वृत्रहा) पापविघ्नादीनां हन्ता वर्तते, तम् (ज्येष्ठम्) श्रेष्ठम् अहम् (गृणे) स्तौमि, गुणैर्वर्णयामि ॥१॥
Essence
मनुष्यस्यात्मनि महती शक्तिर्निहितास्ति। उद्बोधितः स महान्ति कर्माणि कर्तुं समर्थो जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २७३ क्रमाङ्के परमात्मविषये राजविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।
Footnote
१. ऋ० ८।७०।१, अथ० २०।९२।१६, १०५।४, सर्वत्र ‘ज्येष्ठं॑’ इत्यत्र ‘ज्येष्ठो॒’ इति पाठः। साम० २७३।