Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 931

1875 Mantra
Devata- इन्द्रः Rishi- रेभः काश्यपः Chhand- उपरिष्टाद्बृहती Swara- मध्यमः
Mantra with Swara
ने꣣मिं꣡ न꣢मन्ति꣣ च꣡क्ष꣢सा मे꣣षं꣡ विप्रा꣢꣯ अभिस्व꣣रे꣢ । सु꣣दीत꣡यो꣢ वो अ꣣द्रु꣢꣫होऽपि꣣ क꣡र्णे꣢ तर꣣स्वि꣢नः꣣ स꣡मृक्व꣢꣯भिः ॥९३१॥

ने꣣मि꣢म् । न꣢मन्ति । च꣡क्ष꣢꣯सा । मे꣣ष꣢म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अभिस्वरे꣢ । अ꣣भि । स्वरे꣢ । सु꣣दीत꣡यः꣢ । सु꣣ । दीत꣡यः꣢ । वः꣣ । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । अ꣡पि꣢꣯ । क꣡र्णे꣢꣯ । त꣢रस्वि꣡नः꣢ । सम् । ऋ꣡क्व꣢꣯भिः ॥९३१॥

Mantra without Swara
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥

नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । वि । प्राः । अभिस्वरे । अभि । स्वरे । सुदीतयः । सु । दीतयः । वः । अद्रुहः । अ । द्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वभिः ॥९३१॥

Samveda - Mantra Number : 931
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विप्राः) मेधाविनो ब्राह्मणाः (अभिस्वरे)२ वेदस्तोत्रे। [स्वृ शब्दोपतापयोः।] (नेमिम्) रथचक्रे नेमिमिव सर्वत्र व्याप्तम्। [परि विश्वानि काव्या नेमिश्चक्रमिवाभवत्’ ऋ० २।५।३ इति श्रुतेः।] (मेषम्) सुखेन सेक्तारम्। [मेषति सिञ्चतीति मेषः। मिष सेचने, भ्वादिः।] इन्द्रं परमेश्वरम् (चक्षसा) साक्षात्कारेण (नमन्ति) स्वाभिमुखं कुर्वन्ति। अथ मानवाः सम्बोध्यन्ते—हे (सुदीतयः) सम्यग् अविद्यायाः क्षयकर्तारः उपासकाः। [दीतिः दीङ् क्षये, शोभना दीतिः अविद्यायाः क्षयो येषां ते सुदीतयः।] (वः) यूयम् (अद्रुहः) अद्रोहकारिणः भवत। (अपि) अपि च (कर्णे) स्वकीयायाः परकीयायाश्च जीवननौकायाः कर्णधारत्वे (तरस्विनः) वेगवन्तो भवत। (ऋक्वभिः३) प्रशस्ताः ऋचः स्तुतयो विद्यन्ते येषां (तैः) सुस्तोतृभिः जनैः सह (सम्) संगच्छध्वम्। [ऋचः मत्वर्थे प्रशंसायां ‘छन्दसीवनिपौ’ अ० ५।२।१०९ वा० इत्यनेन वनिप् प्रत्यये ऋक्वा इति सिध्यति।] ॥२॥
Essence
मनुष्यैः परमेश्वरं साक्षात्कृत्य द्रोहरहितैः सर्वमित्रैः कर्णधारैः क्रियाशीलैः सत्संगतिपरायणैः परोपकारिभिर्भूत्वा विचरणीयम् ॥२॥
Subject
अथोपास्योपासकविषयमाह।
Footnote
१. ऋ० ८।९७।१२, अथ० २०।५४।३, उभयत्र “अभिस्वरा॑” इति पाठः। २. अभिस्वरे अभिस्वरो यज्ञस्तस्मिन् अभिस्वरे यज्ञे—इति वि०। ३. ऋक्वभिः अर्चनायुक्तैः मन्त्रैः—इति सा०। ऋग्यजुःसामभिः—इति वि०।