Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 93

1875 Mantra
Devata- अग्निः Rishi- वामदेव: कश्यप:, असितो देवलो वा Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
रा꣣ये꣡ अ꣢ग्ने म꣣हे꣢ त्वा꣣ दा꣡ना꣢य꣣ स꣡मि꣢धीमहि । ई꣡डि꣢ष्वा꣣ हि꣢ म꣣हे꣡ वृ꣢ष꣣न् द्या꣡वा꣢ हो꣣त्रा꣡य꣢ पृथि꣣वी꣢ ॥९३

रा꣣ये꣢ । अ꣣ग्ने । महे꣢ । त्वा꣣ । दा꣡ना꣢꣯य । सम् । इ꣣धीमहि । ई꣡डि꣢꣯ष्व । हि । म꣣हे꣢ । वृ꣣षन् । द्या꣡वा꣢꣯ । हो꣣त्रा꣡य꣢ । पृ꣣थिवी꣡इ꣢ति ॥९३॥

Mantra without Swara
राये अग्ने महे त्वा दानाय समिधीमहि । ईडिष्वा हि महे वृषन् द्यावा होत्राय पृथिवी ॥९३

राये । अग्ने । महे । त्वा । दानाय । सम् । इधीमहि । ईडिष्व । हि । महे । वृषन् । द्यावा । होत्राय । पृथिवीइति ॥९३॥

Samveda - Mantra Number : 93
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) देहस्थेषु मनोबुद्धीन्द्रियादिषु देवेषु अग्रणीभूत अस्मदीय जीवात्मन् ! वयम् (महे राये) विपुलाय धनाय, विपुलं स्वर्णरजतविद्याविवेकादिधनम् अर्जयितुमिति भावः, (दानाय) अर्जितं धनं सत्पात्रेभ्यो दातुं च (त्वा) त्वाम् (समिधीमहि) प्रदीपयेम, प्रबोधयेम इत्यर्थः। हे (वृषन्) बलवन् जीवात्मन् ! त्वम् (द्यावा-पृथिवी) द्युलोकं भूलोकं च (महे होत्राय) महते होमाय (ईडिष्व) स्तुहि, प्रशंस। द्यावापृथिवी इमे जगतो हिताय सृष्टिसञ्चालनयज्ञे सर्वस्वहोमं कुरुत इति तयोर्गुणान् वर्णय, ततः प्रेरणां गृहीत्वा स्वयमपि परोपकाराय होमं कुरु, इति भावः ॥३॥
Essence
मनुष्यैः स्वात्मानं प्रबोध्य दानशीलाभ्यां द्यावापृथिवीभ्यां शिक्षां गृहीत्वा धनानामर्जने दाने च प्रवृत्तिर्विधेया ॥३॥
Subject
अथाग्निनाम्ना जीवात्मा सम्बोध्यते।