Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 928

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
य꣢स्ते꣣ म꣢दो꣣ यु꣢ज्य꣣श्चा꣢रु꣣र꣢स्ति꣣ ये꣡न꣢ वृ꣣त्रा꣡णि꣢ हर्यश्व꣣ ह꣡ꣳसि꣢ । स꣡ त्वामि꣢꣯न्द्र प्रभूवसो ममत्तु ॥९२८॥

यः । ते꣣ । म꣡दः꣢꣯ । यु꣡ज्यः꣢꣯ । चा꣡रुः꣢꣯ । अ꣡स्ति꣢꣯ । ये꣡न꣢꣯ । वृ꣣त्रा꣡णि꣢ । ह꣣र्यश्व । हरि । अश्व । ह꣡ꣳसि꣢꣯ । सः । त्वाम् । इ꣣न्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥

Mantra without Swara
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हꣳसि । स त्वामिन्द्र प्रभूवसो ममत्तु ॥

यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हर्यश्व । हरि । अश्व । हꣳसि । सः । त्वाम् । इन्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥

Samveda - Mantra Number : 928
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (हर्यश्व) हरयः ज्ञानकर्मणाम् आहर्तारः अश्वाः ज्ञानेन्द्रियकर्मेन्द्रियरूपाः यस्य तादृश जीवात्मन् ! (यः ते) तव (मदः) उत्साहः (युज्यः) तव सहयोगी (चारुः) श्रेष्ठश्च (अस्ति) विद्यते, (येन) मदेन उत्साहेन त्वम् (वृत्राणि) बाह्यान् आन्तरिकांश्च रिपून् (हंसि) विनाशयसि, (सः) असौ मदः उत्साहः, हे (प्रभूवसो) बहुगुण (इन्द्र) जीवात्मन् ! (त्वा) त्वाम् (ममत्तु) आनन्दयतु ॥२॥२
Essence
मनुष्यस्यात्मा स्वशक्तिं परिचित्य सोत्साहो भूत्वा यदा जीवनसंग्राममवतरति तदा तस्य विजयः सुनिश्चितः ॥२॥
Subject
अथ परमात्मा जीवात्मानमाह।
Footnote
१. ऋ० ७।२२।२, अथ० २०।११७।२। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजपक्षे व्याचष्टे।