Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 927

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢ । सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥९२७॥

पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । इ꣣न्द्र । म꣡न्द꣢꣯तु । त्वा꣣ । य꣢म् । ते꣣ । सुषा꣢व꣡ । ह꣣र्यश्व । हरि । अश्व । अ꣡द्रिः꣢꣯ । अ । द्रिः꣣ । सोतुः꣢ । बा꣣हु꣢भ्या꣢म् । सु꣡य꣢꣯तः । सु । य꣣तः । न꣢ । अ꣡र्वा꣢꣯ ॥९२७॥

Mantra without Swara
पिबा सोममिन्द्र मदतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्याꣳ सुयतो नार्वा ॥

पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुषाव । हर्यश्व । हरि । अश्व । अद्रिः । अ । द्रिः । सोतुः । बाहुभ्याम् । सुयतः । सु । यतः । न । अर्वा ॥९२७॥

Samveda - Mantra Number : 927
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (हर्यश्व) हरयः आकर्षणयुक्ताः अश्वाः व्याप्ताः सूर्यचन्द्रपृथिव्यादयो लोका यस्य तादृश (इन्द्र) परमैश्वर्यवन् परमात्मन् ! त्वम् (सोमम्) मदीयं भक्तिरसम् (पिब) आस्वादय, स्वीकुरु इति भावः। स सोमः मदीयः भक्तिरसः (त्वा) त्वाम् (मन्दतु) मोदयतु, (यम्) भक्तिरसम् (सोतुः) रथप्रेरकस्य सारथेः (बाहुभ्याम्) भुजाभ्याम् (सुयतः) सुनियन्त्रितः (अर्वा न) अश्वः इव (सुयतः) यमनियमादिभिः सुनियन्त्रितः (अद्रिः) अविनश्वरः मदीयः अन्तरात्मा। [न दीर्यते विनश्यतीति अद्रिः।] (ते) तुभ्यम् (सुषाव) अभिषुतवान् अस्ति ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
मनुष्यस्यात्मा तपसा श्रद्धया च सह वेदमन्त्रान् गायं गायं यदा परमात्मने भक्तिरसं प्रवाहयति तदा परमात्मा तस्मिन् सद्गुणान् सत्कर्माणि च सम्प्रेर्य तं महान्तं करोति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३९८ क्रमाङ्के सेनापतिपक्षे राजपक्षे जीवात्मपक्षे च व्याख्याता। अत्र परमात्मा सम्बोध्यते।
Footnote
१. ऋ० ७।२२।१, अथ० २०।११७।१, साम० ३९८। २. ऋग्भाष्ये दयानन्दर्षिणा ‘इन्द्र’ शब्देन रोगनिवारको वैद्यः ‘सोम’ शब्देन च महोषधिरसो गृहीतः।