Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 926

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
नू꣡ नो꣢ र꣣यिं꣢ म꣣हा꣡मि꣢न्दो꣣ऽस्म꣡भ्य꣢ꣳ सोम वि꣣श्व꣡तः꣢ । आ꣡ प꣢वस्व सह꣣स्रि꣡ण꣢म् ॥९२६॥

नु꣢ । नः꣣ । रयि꣢म् । म꣣हा꣢म् । इ꣣न्दो । अस्म꣡भ्य꣢म् । सोम । वि꣣श्व꣡तः꣢ । आ । प꣣वस्व । सहस्रि꣡ण꣢म् ॥९२६॥

Mantra without Swara
नू नो रयिं महामिन्दोऽस्मभ्यꣳ सोम विश्वतः । आ पवस्व सहस्रिणम् ॥

नु । नः । रयिम् । महाम् । इन्दो । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम् ॥९२६॥

Samveda - Mantra Number : 926
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) तेजस्विन्, आनन्दरसेन विद्यारसेन वा क्लेदयितः (सोम) शुभगुणप्रेरक परमात्मन् आचार्य वा ! त्वम् (नु) निश्चयेन (अस्मभ्यम्) नः (विश्वतः) सर्वतः (महाम्) महान्तम् (सहस्रिणम्)सहस्रसंख्यावन्तम् (रयिम्) धनधान्यविद्यारोग्यसच्चारित्र्य-न्यायदयादिकम् ऐश्वर्यम् (आ पवस्व) आ गमय ॥३॥
Essence
परमात्मकृपयाऽऽचार्यस्य च प्रयत्नेन मनुष्याः सर्वामप्याध्यात्मिकीं भौतिकीं च सम्पदं प्राप्तुं शक्नुवन्ति ॥३॥ अस्मिन् खण्डे गुरुशिष्यविषयस्य परमात्मविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥
Subject
अथ परमात्मानमाचार्यं च प्रार्थयते।
Footnote
१. ऋ० ९।४०।३।