Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 925

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ योनि꣢꣯मरु꣣णो꣡ रु꣢ह꣣द्ग꣢म꣣दि꣢न्द्रो꣣ वृ꣡षा꣢ सु꣣त꣢म् । ध्रु꣣वे꣡ सद꣢꣯सि सीदतु ॥९२५॥

आ । यो꣡नि꣢꣯म् । अ꣣रुणः꣢ । रु꣣हत् । ग꣡म꣢꣯त् । इ꣡न्द्रः꣢꣯ । वृ꣡षा꣢꣯ । सु꣣त꣢म् । ध्रु꣣वे꣢ । स꣡द꣢꣯सि । सी꣡द꣢꣯तु ॥९२५॥

Mantra without Swara
आ योनिमरुणो रुहद्गमदिन्द्रो वृषा सुतम् । ध्रुवे सदसि सीदतु ॥

आ । योनिम् । अरुणः । रुहत् । गमत् । इन्द्रः । वृषा । सुतम् । ध्रुवे । सदसि । सीदतु ॥९२५॥

Samveda - Mantra Number : 925
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—ब्रह्मानन्दपक्षे। (अरुणः) आरोचमानः ब्रह्मानन्दसोमः (योनिम्) हृदयगृहम् (आ रुहत्) आरोहति। (वृषा) बलवान् (इन्द्रः) अन्तरात्मा (सुतम्) अभिषुतं ब्रह्मानन्दरूपं सोमरसम् (गमत्) प्राप्नोति। वयं कामयामहे यत् स ब्रह्मानन्दः (ध्रुवे सदसि) अविचले आत्मसदने (सीदतु) उपविशतु, तदङ्गतां गच्छत्विति भावः ॥२॥ द्वितीयः—गुरुशिष्यविषये। (अरुणः) आरोचमानः विद्यार्थी (योनिम्) गुरुगृहम् (आ रुहत्) आरोहति, प्रविशतीत्यर्थः। (वृषा) विद्यावर्षकः (इन्द्रः) आचार्यः (सुतम्) पुत्रतुल्यं तं विद्यार्थिनम् (गमत्) अभिनन्दितुं गच्छति। स विद्यार्थी (ध्रुवे) स्थिरे (सदसि) विद्यागृहे (सीदतु) निवसतु, आविद्यासमाप्तिं तत्र निश्चिन्ततया तिष्ठत्वित्यर्थः ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा मनुष्यस्यात्मा ब्रह्मानन्दपानेन कृतार्थो जायेत तथा गुरुकुलं प्रविष्टो विद्यार्थी विद्यासु पारं गत्वा कृतकृत्यो भवेत् ॥२॥
Subject
अथ ब्रह्मानन्दविषयं गुरुशिष्यविषयं च वर्णयति।
Footnote
१. ऋ० ९।४०।२ ‘गम॒दिन्दं॒ वृषा॑ सु॒तः। ध्रु॒वे सद॑सि सीदति’ इति पाठः।