Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 924

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पु꣣नानो꣡ अ꣢क्रमीद꣣भि꣢꣫ विश्वा꣣ मृ꣢धो꣣ वि꣡च꣢र्षणिः । शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ धी꣣ति꣡भिः꣢ ॥९२४॥

पु꣣ना꣢नः । अ꣣क्रमीत् । अभि꣢ । वि꣡श्वाः꣢꣯ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । धी꣡तिभिः꣢ ॥९२४॥

Mantra without Swara
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥

पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विचर्षणिः । वि । चर्षणिः । शुम्भन्ति । विप्रम् । वि । प्रम् । धीतिभिः ॥९२४॥

Samveda - Mantra Number : 924
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पुनानः) मनांसि शोधयन् (विचर्षणिः)सर्वशास्त्रपारदृश्वा सोमः आचार्यः (विश्वाः मृधः) शिष्याणां सर्वा हिंसावृत्तीः (अभि अक्रमीत्) अभ्याक्रामति, विनाशयति। तम् (विप्रम्) मेधाविनं ब्राह्मणम् आचार्यम् शिष्याः (धीतिभिः) शिष्योचितकर्मभिः (शुम्भन्ति) शोभयन्ति, तदुक्तानि कर्माण्याचरन्तस्तद्गौरवं वर्द्धयन्तीत्यर्थः ॥१॥
Essence
यथाचार्यः शिष्याणां दोषान् परिमृज्य तान् निष्कलुषान् विधत्ते तथैव शिष्यैरप्याचार्यस्यादेशं शिरसि धारयित्वा स प्रसादनीयः ॥१॥
Subject
तत्र प्रथमाया ऋचः परमात्मविषयोऽर्थः पूर्वार्चिके ४८८ क्रमाङ्के द्रष्टव्यः। अत्राचार्यशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० ९।४०।१, साम० ४८८।