Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 923

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त꣢वा꣣हं꣡ नक्त꣢꣯मु꣣त꣡ सो꣢म ते꣣ दि꣡वा꣢ दुहा꣣नो꣡ ब꣢भ्र꣣ ऊ꣡ध꣢नि । घृ꣣णा꣡ तप꣢꣯न्त꣣म꣢ति꣣ सू꣡र्यं꣢ प꣣रः꣡ श꣢कु꣣ना꣡ इ꣢व पप्तिम ॥९२३॥

त꣡व꣢꣯ । अ꣡ह꣢म् । न꣡क्त꣢꣯म् । उ꣣त꣢ । सो꣣म । ते । दि꣡वा꣢꣯ । दु꣣हानः꣢ । ब꣣भ्रो । ऊ꣡ध꣢꣯नि । घृ꣣णा꣢ । त꣡प꣢꣯न्तम् । अ꣡ति꣢꣯ । सू꣡र्य꣢꣯म् । प꣣रः꣢ । श꣣कुनाः꣢ । इ꣣व । पप्तिम ॥९२३॥

Mantra without Swara
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि । घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥

तव । अहम् । नक्तम् । उत । सोम । ते । दिवा । दुहानः । बभ्रो । ऊधनि । घृणा । तपन्तम् । अति । सूर्यम् । परः । शकुनाः । इव । पप्तिम ॥९२३॥

Samveda - Mantra Number : 923
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (बभ्रो) भरणपोषणकर्तः (सोम) आनन्दरसागार परमेश्वर ! (तव) त्वदीयः (अहम्) उपासकः (ते) तव (ऊधनि) आनन्दरसकोशात्। [पञ्चम्यर्थे सप्तमी।] (नक्तम्) रात्रौ (उत) अपि च (दिवा) दिवसे (दुहानः) आनन्दरसम् आददानः अस्मि। किञ्च, (घृणा) तेजसा। [घृणिः इति ज्वलतो नामधेयम्। निरु० १।१७। तृतीयैकवचने ‘सुपां सुलुक्०’ इति विभक्तेर्डादेशः।] (तपन्तम्) ज्वलन्तम् (सूर्यम्) आदित्यम् अपि (अति) अतिक्रम्य, सूर्यादप्यधिकतरं तेजस्विनः सन्तः इत्यर्थः (शकुनाः इव) पक्षिणः इव (परः) भौतिकाज्जगतः परस्तात् विद्यमानं परमात्मानं त्वां प्रति (पप्तिम) वयं पतामः। [पत्लृ धातोर्लडर्थे लिटि ‘तनिपत्योश्छन्दसि’। अ० ६।४।९९ इत्युपधालोपः] ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
मनुष्यस्तेजस्वी तपस्वी च भूत्वा परमात्मानं साक्षात्कृत्य तस्यानन्दरसमास्वाद्य मोक्षपदं लभेत ॥२॥
Subject
आचार्यसाहाय्येन दोषान् दूरीकृत्य सम्प्रति परमात्मानमाह।
Footnote
१. ऋ० ९।१०७।२०, ‘तवाहं’ ‘दुहानो’ इत्यत्र क्रमेण ‘उ॒ताहं’ ‘स॒ख्याय॒’ इति पाठः।