Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 922

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- प्रगाथः(विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
त꣢वा꣣ह꣡ꣳ सो꣢म रारण स꣣ख्य꣡ इ꣢न्दो दि꣣वे꣡दि꣢वे । पु꣣रूणि꣢ बभ्रो꣣ नि꣡ च꣢रन्ति꣣ मा꣡मव꣢꣯ प꣣रिधी꣢꣫ꣳरति꣣ ता꣡ꣳइ꣢हि ॥९२२॥

त꣡व꣢꣯ । अ꣡ह꣢म् । सो꣣म । रारण । सख्ये꣢ । स꣣ । ख्ये꣢ । इ꣣न्दो । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । पुरू꣡णि꣢ । ब꣣भ्रो । नि꣢ । च꣣रन्ति । मा꣢म् । अ꣡व꣢꣯ । प꣣रिधी꣢न् । प꣣रि । धी꣢न् । अ꣡ति꣢꣯ । तान् । इ꣣हि ॥९२२॥

Mantra without Swara
तवाहꣳ सोम रारण सख्य इन्दो दिवेदिवे । पुरूणि बभ्रो नि चरन्ति मामव परिधीꣳरति ताꣳइहि ॥

तव । अहम् । सोम । रारण । सख्ये । स । ख्ये । इन्दो । दिवेदिवे । दिवे । दिवे । पुरूणि । बभ्रो । नि । चरन्ति । माम् । अव । परिधीन् । परि । धीन् । अति । तान् । इहि ॥९२२॥

Samveda - Mantra Number : 922
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) विद्यारसेन क्लेदयितः, तेजस्विन् (सोम) विद्यारसागार आचार्य ! (अहम्) शिष्यः (तव सख्ये) त्वदीये सखित्वे (दिवे-दिवे) दिने दिने (रारण)वेदशास्त्राणि उच्चारयामि। [रण शब्दे, लडर्थे लिट्। उत्तमैकवचने ररण इति प्राप्तेऽभ्यासदीर्घश्छान्दसः।]हे (बभ्रो) सर्वेषां शिष्याणां भरणपोषणकर्तः आचार्य ! (पुरूणि) बहूनि दोषजातानि (माम्) शिष्यम् (नि अव चरन्ति) बाधन्ते, (परिधीन् तान्) परिवारकान् तान् दोषान् (अति इहि) अतिक्रमस्व, विनाशय ॥१॥
Essence
गुरूणामिदं कर्त्तव्यं यत्ते शिष्येषु प्रादुर्भूतान् सर्वान् दोषान् दूरीकृत्य तान् निर्मलचरित्रान् विदुषश्च कुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१६ क्रमाङ्के उपास्योपासकविषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।
Footnote
१. ऋ० ९।१०७।१९। साम० ५१६।