Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 921

1875 Mantra
Devata- पवमानः सोमः Rishi- दृढच्युत आगस्त्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मान धि꣣या꣢ हि꣣तो꣡३ऽभि꣢꣫ योनिं꣣ क꣡नि꣢क्रदत् । ध꣡र्म꣢णा वा꣣यु꣢मारु꣢꣯हः ॥९२१॥

प꣡व꣢꣯मान । धि꣣या꣢ । हि꣣तः꣢ । अ꣣भि꣢ । यो꣡नि꣢꣯म् । क꣡नि꣢꣯क्रदत् । ध꣡र्म꣢꣯णा । वा꣣यु꣢म् । आ । अ꣣रुहः ॥९२१॥

Mantra without Swara
पवमान धिया हितो३ऽभि योनिं कनिक्रदत् । धर्मणा वायुमारुहः ॥

पवमान । धिया । हितः । अभि । योनिम् । कनिक्रदत् । धर्मणा । वायुम् । आ । अरुहः ॥९२१॥

Samveda - Mantra Number : 921
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) चित्तशोधक आचार्य ! (धिया) प्रज्ञया कर्मणा च (हितः) शिष्याणां हितकरः (त्वम् योनिम् अभि) यमनियमादीनामाश्रयभूतं शिष्यवर्गं प्रति (कनिक्रदत्) शास्त्राणि उपदिशन् (धर्मणा) धर्मेण (वायुम्) प्रगतिशीलं शिष्यवर्गम् (आरुहः) परमोत्कर्षसोपानम् आरोहयसि। [आङ्पूर्वाद् रुहेर्णिज्गर्भाल्लडर्थे लङि रूपम्] ॥३॥
Essence
आचार्यो विद्यादिदानेन शिष्याणां महदुपकरोतीति स शिष्यैर्मनसा वाचा कर्मणा च सम्माननीयः, परेभ्यो विद्यादिदानेन च तदीयमृणं प्रतियातनीयम् ॥३॥
Subject
अथ पुनस्तमेव विषयं वर्णयति।
Footnote
१. ऋ० ९।२५।२, ‘धर्म॑णा वा॒युमा वि॑श’ इति तृतीयः पादः।