Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 920

1875 Mantra
Devata- पवमानः सोमः Rishi- दृढच्युत आगस्त्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सं꣢ दे꣣वैः꣡ शो꣢भते꣣ वृ꣡षा꣢ क꣣वि꣢꣫र्यो꣣नाव꣡धि꣢ प्रि꣣यः꣢ । प꣡व꣢मानो꣣ अ꣡दा꣢भ्यः ॥९२०॥

सम् । दे꣣वैः꣢ । शो꣣भते । वृ꣡षा꣢꣯ । क꣡विः꣢ । यो꣡नौ꣢꣯ । अ꣡धि꣢꣯ । प्रि꣣यः꣢ । प꣡व꣢꣯मानः । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः ॥९२०॥

Mantra without Swara
सं देवैः शोभते वृषा कविर्योनावधि प्रियः । पवमानो अदाभ्यः ॥

सम् । देवैः । शोभते । वृषा । कविः । योनौ । अधि । प्रियः । पवमानः । अदाभ्यः । अ । दाभ्यः ॥९२०॥

Samveda - Mantra Number : 920
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृषा) ज्ञानवर्षकः, (कविः) मेधावी, (प्रियः) शिष्याणां वत्सलः, (अदाभ्यः) दब्धुं वञ्चयितुमशक्यः (पवमानः) पवित्रयिता आचार्यः (योनौ अधि) गृहे, गुरुकुले इत्यर्थः। [योनिरिति गृहनाम। निघं० १।१२।] (देवैः) दिव्यगुणयुक्तैः शिष्यैः सह (सं शोभते) संविभाति ॥२॥
Essence
सुयोग्या गुरवः सुयोग्याः शिष्याश्च परस्परं मिलित्वाऽतितरां शोभन्ते ॥२॥
Subject
अथ पुनरपि गुरुशिष्यविषयमाह।
Footnote
१. ऋ० ९।२५।३, ‘वृ॒त्र॒हा दे॑व॒वीत॑मः’ इति तृतीयः पादः।