Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 92

1875 Mantra
Devata- अङ्गिराः Rishi- वामदेव: कश्यप:, असितो देवलो वा Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
इ꣣त꣢ ए꣣त꣢ उ꣣दा꣡रु꣢हन्दि꣣वः꣢ पृ꣣ष्ठा꣡न्या रु꣢꣯हन् । प्र꣢ भू꣣र्ज꣢यो꣣ य꣡था꣢ प꣣थो꣡द्यामङ्गि꣢꣯रसो ययुः ॥९२

इ꣣तः꣢ । ए꣣ते꣢ । उ꣣दा꣢रु꣢हन् । उ꣣त् । आ꣡रु꣢꣯हन् । दि꣣वः꣢ । पृ꣣ष्ठा꣡नि꣢ । आ । अ꣣रुहन् । प्र꣢ । भूः꣣ । ज꣡यः꣢꣯ । य꣡था꣢꣯ । प꣣था꣢ । उत् । द्याम् । अ꣡ङ्गि꣢꣯रसः । य꣣युः ॥९२॥

Mantra without Swara
इत एत उदारुहन्दिवः पृष्ठान्या रुहन् । प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः ॥९२

इतः । एते । उदारुहन् । उत् । आरुहन् । दिवः । पृष्ठानि । आ । अरुहन् । प्र । भूः । जयः । यथा । पथा । उत् । द्याम् । अङ्गिरसः । ययुः ॥९२॥

Samveda - Mantra Number : 92
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अङ्गिरसो देवताः। (एते) इमे (अङ्गिरसः) अग्निस्वरूपम् अङ्गारवत् तेजस्विनम् अङ्गरसभूतं प्राणप्रियं परमेश्वरं ध्यायन्तस्तपस्विनो योगिनः। अङ्गारेषु अङ्गिराः। निरु० ३।१७। अङ्गिरा उ ह्यग्निः। श० १।४।१।२५। अङ्गिरसं मन्यन्ते अङ्गानां यद् रसः। छा० उ० १।२।१० प्राणो वा अङ्गिराः। श० ६।१।२।२८। भृगूणाम् अङ्गिरसां तपसा तप्यध्वम्। तै० सं० १।१।७।२। (इतः) अस्माद् अन्नमयकोशाद् मूलाधारचक्राद् वा (उत् आरुहन्) ऊर्ध्वम् आरोहन्ति, क्रमशश्च (दिवः पृष्ठानि) अन्तरिक्षस्य सोपानानि—मध्यवर्तिकोशान्, मध्यवर्तिचक्राणि वा (आरुहन्) आरोहन्ति। ततश्च (द्याम्) द्युलोकम्—आनन्दमयरूपं सर्वोच्चकोशम्, सहस्राररूपं सर्वोच्चचक्रं वा (उद् ययुः) उद्गच्छन्ति। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति नियमेन भूतवाचिलकारा अत्र सामान्यकाले प्रयुक्ताः। हे सखे ! त्वमपि तथैव (प्र भूः१) प्रकृष्टो भव, यद्वा प्रभवसमर्थो भव, (यथा) येन प्रकारेण (पथा) सन्मार्गेण, तव (जयः) विजयः, भवेद् इति शेषः ॥२॥२
Essence
मानवशरीरेऽन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयरूपाः पञ्चकोशाः, मूलाधार-स्वाधिष्ठान-मणिपूर-अनाहत-विशुद्ध-ललित-आज्ञा-सहस्राररूपाण्यष्ट चक्राणि च विद्यन्ते। योगभ्यासिनो जनाः स्थूलकोशात् सूक्ष्मसूक्ष्मतरकोशान् प्रत्युत्क्रामन्तः सूक्ष्मतमकोशम् आनन्दमयम् अधिगम्य परं ब्रह्मानन्दमनुभवन्ति। किञ्च, निम्नचक्रान्मूलाधारात् प्राणचङ्क्रमणक्रमेणान्ते सहस्रारचक्रे प्राणान् केन्द्रीकृत्य मस्तिष्के हृदये च परमात्मज्योतिषोऽविच्छिन्नां धारां प्रवाहयन्ति। हे सखे ! त्वमपि तथैव सामर्थ्यं संचिनु, येनोत्तरोत्तरमुत्कृष्टतरमार्गमनुधावतो विजयस्तव हस्तगतो भवेत् ॥२॥
Subject
अथ योगिनः किं कुर्वन्तीत्याह।
Footnote
१. तुलनीयम्—प्रभूर्जयन्तम् इति ७४ संख्यकसाममन्त्रभाष्यम्। प्रभूर्जयः। भूः पृथिवी तां ये पशुकर्मादिभिः महावीराख्येन च कर्मणा प्रकर्षेण जितवन्तः ते प्रभूर्जयः—इति वि०। भूर्जतेः पाककर्मणः भूर्जय इति रूपम्। हविषां पक्तारः अङ्गिरसः—इति भ०। भूर्णयः भृज्जतिः पाककर्मा, हविषां पक्तारः—इति सा०। सायणीये च व्याख्याने दोषमुद्भावयन्तः प्राहुः सत्यव्रतसामश्रमिणः—“नेदं व्याख्यानं साधु मन्यते, भूः जयः इत्येवं पदकारकृतावग्रहदर्शनात्, न हिः ‘भूर्जयः इति रूपे भूः जयः इत्येवमवग्रहः संभवति, नापि तदधीनस्वरश्रुतिः” इति। २. एष मन्त्रो योगसिद्ध्या गगनारोहणविषयेऽपि व्याख्यातुमलम्। यथाह दयानन्दर्षिः य० १७।६७ मन्त्रभाष्ये—“यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याऽभीष्टानि स्थानानि गन्तुं शक्नोति, नान्यथा।” इति।