Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 915

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢꣫त्राह꣣ गो꣡र꣢मन्वत꣣ ना꣢म꣣ त्व꣡ष्टु꣢रपी꣣꣬च्य꣢꣯म् । इ꣣त्था꣢ च꣣न्द्र꣡म꣢सो गृ꣣हे꣢ ॥९१५॥

अ꣡त्र꣢꣯ । अ꣡ह꣢꣯ । गोः । अ꣣मन्वत । ना꣡म꣢꣯ । त्व꣡ष्टुः꣢꣯ । अ꣡पीच्य꣢म् । इ꣣त्था꣢ । च꣣न्द्र꣡म꣢सः । च꣣न्द्र꣢ । म꣣सः । गृहे꣣ ॥९१५॥

Mantra without Swara
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥

अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् । इत्था । चन्द्रमसः । चन्द्र । मसः । गृहे ॥९१५॥

Samveda - Mantra Number : 915
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अत्र ह) अत्र खलु (त्वष्टुः) दीप्तात् सूर्यात् (अपीच्यम्) अपगतं प्रकाशम्। [अप अञ्चतीति अपीचिः, तम् अपीच्यम्। पूर्वरूपाभावश्छान्दसः। ततो यण्।] (गोः नाम) पृथिव्यां नतम् (अमन्वत)मन्वते जनाः। (इत्था) इत्थम् पृथिवीं मध्ये कृत्वा स प्रकाशः (चन्द्रमसः गृहे) चन्द्रमण्डले पतति, ततः चन्द्रः प्रकाशितो जायते। एष इन्द्रस्य परमेश्वरस्यैव महिमाऽस्ति ॥३॥२
Essence
पृथिवी खल्वण्डाकृतिमार्गेण सूर्यं परितो याति, चन्द्रश्च पृथिवीं परिक्राम्यन् पृथिव्या सह सूर्यमपि परिक्रामति। सूर्यचन्द्रयोर्मध्ये पृथिव्या आगमनात् प्रत्यहं चन्द्रमसः सम्पूर्णे गोलार्धे सूर्यप्रकाशो न पतति। चन्द्रस्य यावानंशः पृथिव्या अवरुद्धो जायते तावत्यंशे सूर्यप्रकाशस्यापतनात् सोंऽशस्तमसावृत एव तिष्ठति। चन्द्रमसः कलानां हासवृद्ध्योरिदमेव रहस्यम्। अमावस्यायां सम्पूर्णस्य चन्द्रस्य पृथिव्या आवृतत्वात् सम्पूर्ण एव चन्द्रोऽन्धकारावृतो भवति, पूर्णिमायां च सम्पूर्णस्य चन्द्रस्य पृथिव्या मुक्तत्वात् सम्पूर्ण एव चन्द्रः प्रकाशितो भवति। इयमेव परमेश्वरकृता व्यवस्था मन्त्रेऽस्मिन् वर्णिता ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके १४७ क्रमाङ्के सूर्याच्चन्द्रप्रकाशनविषये परमेश्वराद् हृदयप्रकाशनविषये च व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।
Footnote
१. ऋ० १।८४।१५, अथ० २०।४१।३, साम० १४७। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘यथा सूर्यस्य पृथिव्या सहाकर्षणप्रकाशादिसम्बन्धाः सन्ति तथैवान्यभूगोलैः (चन्द्रलोकादिभिः) सह सन्ति’ इति विषये व्याख्यातवान्’।