Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 914

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣च्छ꣡न्नश्व꣢꣯स्य꣣ य꣢꣫च्छिरः꣣ प꣡र्व꣢ते꣣ष्व꣡प꣢श्रितम् । त꣡द्वि꣢दच्छर्य꣣णा꣡व꣢ति ॥९१४॥

इ꣡च्छ꣢न् । अ꣡श्व꣢꣯स्य । यत् । शि꣡रः꣢꣯ । प꣡र्वते꣢꣯षु । अ꣡प꣢꣯श्रितम् । अ꣡प꣢꣯ । श्रि꣣तम् । त꣢त् । वि꣣दत् । शर्यणा꣡व꣢ति ॥९१४॥

Mantra without Swara
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । तद्विदच्छर्यणावति ॥

इच्छन् । अश्वस्य । यत् । शिरः । पर्वतेषु । अपश्रितम् । अप । श्रितम् । तत् । विदत् । शर्यणावति ॥९१४॥

Samveda - Mantra Number : 914
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
इन्द्रः जगदीश्वरः (अश्वस्य) अन्तरिक्षे व्याप्तस्य मेघस्य (पर्वतेषु) शैलेषु (अपश्रितम्) पतितम् (यत् शिरः) शीर्णम् उदकम् (इच्छन्) पुनः वाष्पतां नेतुम् वाञ्छन् भवति (तत्) उदकम् सः (शर्यणावति) शर्यणाः नद्यः शृणन्ति कूलानि तद्वान् शर्यणावान् समुद्रः तस्मिन् समुद्रे (विदत्) लभते। यन्मेघोदकं भूमौ पतित्वा नदीभिः समुद्रं गच्छति तज्जगदीश्वरः पुनरपि वाष्पीकृत्यान्तरिक्षं नीत्वा मेघरूपेण परिणमयतीति भावः ॥२॥२
Essence
मेघाद् वृष्टिर्वृष्टाज्जलाच्च पुनर्मेघ इति चक्रं जगदीश्वर एव चालयति। यदीदृशी तत्कृता सुव्यवस्था नाभविष्यत् तर्हि भूमण्डलमिदं शुष्कं वृक्षौषधिलतादिविहीनं चावर्तिष्यत ॥२॥ एतन्मन्त्रविषयकः सायणाचार्यप्रोक्त इतिहासस्तत्प्रत्याख्यानं च पूर्वार्चिके १७९ संख्यकमन्त्रस्य भाष्ये द्रष्टव्यम् ॥
Subject
अथ पुनर्जगदीश्वरकर्म वर्णयति।
Footnote
१. ऋ० १।८४।१४, अथ० २०।४१।२। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘यथा सूर्योऽन्तरिक्षमाश्रितं मेघं छित्त्वा भूमौ निपातयति तथैव पर्वतदुर्गाश्रितमपि शत्रुं हत्वा भूमौ निपातयेत्’ इति विषये व्याख्यातवान्।