Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 913

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रो꣢ दधी꣣चो꣢ अ꣣स्थ꣡भि꣢र्वृ꣣त्रा꣡ण्यप्र꣢꣯तिष्कुतः । ज꣣घा꣡न꣢ नव꣣ती꣡र्नव꣢꣯ ॥९१३॥

इ꣡न्द्रः꣢꣯ । द꣣धीचः꣢ । अ꣢स्थ꣡भिः꣢ । वृ꣣त्रा꣡णि꣢ । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः । जघा꣡न꣢ । न꣣वतीः꣢ । न꣡व꣢꣯ ॥९१३॥

Mantra without Swara
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव ॥

इन्द्रः । दधीचः । अस्थभिः । वृत्राणि । अप्रतिष्कुतः । अ । प्रतिष्कुतः । जघान । नवतीः । नव ॥९१३॥

Samveda - Mantra Number : 913
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अप्रतिष्कुतः) केनापि शत्रुणा अप्रतिकृतः (इन्द्रः) शत्रुविदारको जगदीश्वरः (दधीचः) आदित्यस्य। [दधातीति दधिः। आदृगमहनजनः किकिनौ लिट् च। अ० ३।२।१७१ इत्यनेन दधातेः किः प्रत्ययः। दधिः धारकः सन् अञ्चति स्वधुरि भ्रमतीति दध्यङ्, तस्य दधीचः आदित्यस्य।] (अस्थभिः) अस्थितुल्यैः किरणसमूहैः (नवनवतीः) प्रतिशतं नवनवतिम् (वृत्राणि) रोगमालिन्यादीनि (जघान) हन्ति ॥१॥२
Essence
अहो, कीदृशं जगदीश्वरस्य महत् कर्म यत् स विशालेन सूर्यरूपेण साधनेन प्रायशः सर्वाण्येव रोगमलादीनि हत्वाऽस्माकं जीवनानि सुरक्षितानि करोति। यदि स मलापहारकं सूर्यं न व्यरचयिष्यत् तर्हि भूमण्डलं नानाव्याधिभिर्निखिलैर्मलैश्च परिपूर्णं सन्निवासयोग्यमपि नाभविष्यत् ॥१॥३
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १७९ क्रमाङ्के जीवात्मपरमात्मविषये व्याख्याता। अत्र जगदीश्वरकर्मोच्यते।
Footnote
१. ऋ० १।८४।१३, साम० १७९, अथ० २०।४१।१। २. ऋग्भाष्ये दयानन्दर्षिरस्मिन् मन्त्रे सूर्यदृष्टान्तेन सेनापतिकृत्यं वर्णितवान्। ३. अस्मिन् मन्त्रे सायणादिभिर्य इतिहासः प्रदर्शितः स पूर्वार्चिके १७९ संख्यकस्य मन्त्रस्य व्याख्यानेऽस्माभिर्निर्दिष्टः। स इतिहासस्तत्रास्माकं टिप्पण्यश्च तत्रैव द्रष्टव्याः।