Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 912

1875 Mantra
Devata- मित्रावरुणौ Rishi- गृत्समदः शौनकः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣢ स꣣म्रा꣡जा꣢ घृ꣣ता꣡सु꣢ती आदि꣣त्या꣡ दानु꣢꣯न꣣स्प꣡ती꣢ । स꣡चे꣢ते꣣ अ꣡न꣢वह्वरम् ॥९१२॥

ता꣢ । स꣣म्रा꣡जा꣢ । स꣣म् । रा꣡जा꣢꣯ । घृ꣣ता꣡सु꣢ती । घृ꣡त꣢ । आ꣣सुतीइ꣡ति꣢ । आ꣣दित्या꣢ । आ꣣ । दित्या꣢ । दा꣡नु꣢꣯नः । पती꣢꣯इ꣢ति꣢ । स꣡चे꣢꣯ते꣣इ꣡ति꣢ । अ꣡न꣢꣯वह्वरम् । अन् । अ꣣वह्वरम् ॥९१२॥

Mantra without Swara
ता सम्राजा घृतासुती आदित्या दानुनस्पती । सचेते अनवह्वरम् ॥

ता । सम्राजा । सम् । राजा । घृतासुती । घृत । आसुतीइति । आदित्या । आ । दित्या । दानुनः । पतीइति । सचेतेइति । अनवह्वरम् । अन् । अवह्वरम् ॥९१२॥

Samveda - Mantra Number : 912
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—आत्ममनःपक्षे। (ता) तौ (घृतासुती) तेजःप्रेरकौ। [घृतं तेजः, घृ क्षरणदीप्त्योः।] (आदित्या) आदित्यौ, ज्ञानेन प्रकाशमानौ (दानुनः पती) दानस्य अधीश्वरौ। [दा धातोः दाभाभ्यां नुः। उ० ३।३२ इति नुः प्रत्ययः।] (सम्राजा) देहस्य सम्राजौ आत्ममनसी (अनवह्वरम्) अकुटिलं सरलं मार्गम्। [ह्वृ कौटिल्ये।] (सचेते) सेवेताम्। [षच सेवने च भ्वादिः, लेट्] ॥ द्वितीयः—नृपतिप्रधानमन्त्रिपक्षे। (ता) तौ (घृतासुती) राष्ट्रे घृतदुग्धादिसेक्तारौ, (आदित्या) ज्ञानप्रकाशेन भासमानौ, (दानुनः पती) दानस्य स्वामिनौ, दानदातारावित्यर्थः, (सम्राजा) सम्राजौ तेजस्विनौ नृपतिप्रधानमन्त्रिणौ (अनवह्वरम्) अकुटिलं व्यवहारम् (सचेते) सेवेताम् ॥३॥२ अत्र श्लेषालङ्कारः ॥३॥
Essence
आत्ममनसोरगाधा शक्तिरन्तर्निहिता। किन्तु ताभ्यां सरल एव पन्था आश्रयणीयो न वक्रः। तथैव नृपतिप्रधानमन्त्रिणावपि सरलेनैव पथा व्यवहरन्तौ राष्ट्रमुन्नेतुं प्रभवतः ॥३॥
Subject
अथ पुनरपि स एव विषय उच्यते।
Footnote
१. ऋ० २।४१।६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सूर्यचन्द्रविषये व्याख्यातवान्।