Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 910

1875 Mantra
Devata- मित्रावरुणौ Rishi- गृत्समदः शौनकः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣यं꣡ वां꣢ मित्रावरुणा सु꣣तः꣡ सोम꣢꣯ ऋतावृधा । म꣢꣫मेदि꣣ह꣡ श्रु꣢त꣣ꣳ ह꣡व꣢म् ॥९१०॥

अ꣣य꣢म् । वा꣣म् । मित्रा । मि । त्रा । वरुणा । सुतः꣢ । सो꣡मः꣢꣯ । ऋ꣣तावृधा । ऋत । वृधा । म꣡म꣢꣯ । इत् । इ꣣ह꣢ । श्रु꣣तम् ह꣡व꣢꣯म् ॥९१०॥

Mantra without Swara
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतꣳ हवम् ॥

अयम् । वाम् । मित्रा । मि । त्रा । वरुणा । सुतः । सोमः । ऋतावृधा । ऋत । वृधा । मम । इत् । इह । श्रुतम् हवम् ॥९१०॥

Samveda - Mantra Number : 910
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—आत्ममनःपक्षे। हे (ऋतावृधा) सत्यस्य वर्धकौ (मित्रावरुणा) आत्ममनसी। (वाम्) युवाभ्याम् (अयम्) एषः (सोमः) ज्ञानकर्मरसः (सुतः) अभिषुतः अस्ति। युवाम् (इह) अत्र (मम) मदीयम् (हवम्) उद्बोधनम् (श्रुतम्) शृणुतम् [श्रु श्रवणे भ्वादिः। ‘बहुलं छन्दसि’। अ० २।४।७३ इति शपो लुकि ‘श्रुवः शृ च’। अ ३।१।७४ इति न प्रवर्तते] ॥ द्वितीयः—नृपतिप्रधानमन्त्रिपक्षे। हे (ऋतावृधा) न्यायस्य वर्धकौ (मित्रावरुणा) नृपतिप्रधानमन्त्रिणौ२ ! (वाम्) युवाभ्याम् (अयम्) एषः (सोमः) राजकरः (सुतः) अर्पितः अस्ति। युवाम् (इह) राष्ट्रे (मम) मदीयम् (हवम्) राष्ट्रोन्नतेः आह्वानम् (श्रुतम्) शृणुतम् ॥१॥३ अत्र श्लेषालङ्कारः ॥१॥
Essence
मनुष्यैः स्वकीये आत्ममनसी उद्बोध्य सर्वविधः समुत्कर्षः। नृपतिप्रधानामात्ययोश्च कर्तव्यमस्ति यत् तौ प्रजाभ्यो राजकरं गृहीत्वा प्रजाहिताय तस्य व्ययं कुर्याताम् ॥१॥
Subject
तत्रादौ आत्ममनसोर्नृपतिप्रधानमन्त्रिणोश्च विषयमाह।
Footnote
१. ऋ० २।४१।४। २. मित्रवरुणा प्राणोदानवद् राजप्रधानामात्यौ इति ऋ० ४।३९।५ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमम् अध्यापकाध्येतृविषये व्याचष्टे।