Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 91

1875 Mantra
Devata- विश्वेदेवाः Rishi- अग्निस्तापसः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
सो꣢म꣣ꣳ रा꣡जा꣢नं꣣ व꣡रु꣢णम꣣ग्नि꣢म꣣न्वा꣡र꣢भामहे । आ꣣दित्यं꣢꣫ विष्णु꣣ꣳ सू꣡र्यं꣢ ब्र꣣ह्मा꣡णं꣢ च꣣ बृ꣢ह꣣स्प꣡ति꣢म् ॥९१॥

सो꣡म꣢꣯म् । रा꣡जा꣢꣯नम् । व꣡रु꣢꣯णम् । अ꣣ग्नि꣢म् । अ꣣न्वा꣡र꣢भामहे । अ꣣नु । आ꣡र꣢꣯भामहे । आ꣣दित्य꣢म् । आ꣣ । दित्य꣢म् । वि꣡ष्णु꣢꣯म् । सू꣡र्य꣢꣯म् । ब्र꣣ह्मा꣡ण꣢म् । च꣣ । बृ꣡हः꣢꣯ । प꣡ति꣢꣯म् ॥९१॥

Mantra without Swara
सोमꣳ राजानं वरुणमग्निमन्वारभामहे । आदित्यं विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिम् ॥

सोमम् । राजानम् । वरुणम् । अग्निम् । अन्वारभामहे । अनु । आरभामहे । आदित्यम् । आ । दित्यम् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहः । पतिम् ॥९१॥

Samveda - Mantra Number : 91
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 10;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। वयम् (राजानम्) सर्वेषां सम्राजम् (सोमम्) चन्द्रवदाह्लादकं, यद्वा चराचरस्य जगतो जनकं सोमनामकं परमात्मानम्। यः सवति जनयति सर्वं जगत् स सोमः तम्। षु प्रसवैश्वर्ययोः इति धातोः ‘अर्तिस्तुसु०’ उ० १।१४० इति मन्। (वरुणम्) यः सर्वान् शिष्टान् मुमुक्षून् धर्मात्मनो वृणोति अथवा शिष्टैर्मुमुक्षुभिर्धर्मात्मभिर्व्रियते स वरुणः, तं वरुणनामकं परमात्मानम्। वृञ् वरणे धातोः कृवृदारिभ्य उनन्।’ उ० ३।५३ इति उनन् प्रत्ययः। (अग्निम्) अग्रनायकं प्रकाशस्वरूपं वा अग्निनामकं परमात्मानम्। (आदित्यम्२) प्रलयकाले सर्वस्य जगतः आदातारम्, अविनाशिस्वरूपम्, सूर्यवत् सत्यन्यायधर्मप्रकाशकम् आदित्यनामकं परमात्मानम्। (विष्णुम्) यो वेवेष्टि व्याप्नोति चराचरं जगत् तं  विष्णुनामकं परमात्मानम्। अत्र विषः किच्च।’ उ० ३।३८ इति सूत्रेण विष्लृ व्याप्तौ धातोः नु प्रत्ययः। (ब्रह्माणम्) सर्वेभ्यो महान्तम् ब्रह्मनामकं परमात्मानम्। अत्र बृहि वृद्धौ धातोः बृंहेर्नोऽच्च।’ उ० ४।१४६ इति मनिन्, नकारस्य अदादेशश्च। (बृहस्पतिम् च) बृहताम् आकाशादीनां पतिम्, यद्वा बृहसः वृद्धेः पतिम् बृहस्पतिनामकं परमात्मानं च। प्रथमेऽर्थे तद्बृहतोश्चोरदेवतयोः सुट् तलोपश्च।’ अ० ६।१।१५७ वा० इति सुट् तकारलोपश्च। द्वितीयेऽर्थे बृहि वृद्धौ धातोः औणादिकोऽसुन्। (अनु आरभामहे) आश्रयामहे। अनु-आङ्पूर्वो रभ राभस्ये धातुर्ग्रहणार्थे प्रयुज्यते। अथ द्वितीयः—राष्ट्रपरः। मन्त्रोक्ताः सर्वे देवा (विभिन्ना) राज्यसचिवा राज्याधिकारिणो वा सन्तीति वेद्यम्। यथोक्तं मनुना—“मौलाञ्छास्त्रविदः शूरांल्लब्धलक्षान् कुलोद्भवान्। सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान्” मनु० ७।५४ इति। वयं प्रजाजनाः (सोमम्) चन्द्रवत् प्रजाह्लादकम् (राजानम्) नृपतिम्, (वरुणम्) दण्डाधिकारिणम्। वरुणः पाशी इति स्मरणात् पाशहस्तो दण्डाधिकारी वेद्यः (अग्निम्) सेनाया अग्रनायकं सेनाध्यक्षम्। अग्निर्वै देवानां सेनानीः। मै० सं० १।१०।१४ इति स्मरणात् (आदित्यम्) प्रजाभ्यः करम् आददानं कराधिकारिणम्३। (आदत्ते) प्रजाभ्यः करम् इत्यादित्यः। (विष्णुम्) व्यापकरूपेण प्रजाकार्यनिर्वाहकत्वात् प्रधानमन्त्रिणम्, (सूर्यम्) सूर्यवद् रोगनिवारकं स्वास्थ्यमन्त्रिणम्, (ब्रह्माणम्) यज्ञाधिकारिणम्। ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्याम्। ऋ० १०।७१।११। ब्रह्मैको जाते जाते विद्यां वदति। ब्रह्मा सर्वविद्यः, सर्वं वेदितुमर्हति। ब्रह्मा परिवृढः श्रुततः। निरु० १।८ इति वर्णनात्। (बृहस्पतिं च) शिक्षासचिवं च। वाग् वै बृहती, तस्या एष पतिस्तस्माद् बृहस्पतिः। श० १४।४।१।२२। (अनु आ रभामहे) राष्ट्रोत्कर्षार्थम् आश्रयामहे ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
अग्निसोमवरुणादित्यविष्णुसूर्यब्रह्मबृहस्पत्याद्यनेकनामभिर्वेदेषु गीतकीर्तिरेकः परमेश्वरः सर्वैराश्रयणीयः। तथैव राष्ट्रेऽनेकैरमात्यै राज्याधिकारिभिश्च सह राष्ट्रं सञ्चालयन् नृपतिरपि सर्वैः प्रजाजनैराश्रयणीयः सहयोगप्रदानेन सत्कर्तव्यश्च ॥१॥
Subject
अथ सोमवरुणादीनाह्वयति।
Footnote
१. ऋ० १०।१४१।३, सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे। आदित्यान्० इति पाठः। य० ९।२६, देवताः सोमाग्न्यादित्यविष्णुसूर्य- ब्रह्मबृहस्पतयः, सोमं राजानमवसेऽग्निमन्वारभामहे। आदित्यान्० इति पाठः। अथ० ३।२०।४, ऋषिः वसिष्ठः, देवता यजुर्वत्, पाठः पूर्वार्द्धः ऋग्वेदवत्, उत्तरार्द्धः सामवत्। २. आदित्यः प्रलये सर्वस्यादातृत्वात् इति य० ३२।१ भाष्ये, ‘आदित्य अविनाशिस्वरूप, सूर्य इव सत्यन्यायप्रकाशक इति च य० १२।१२ भाष्ये—द०। आदित्यः आदत्ते रसान्, आदत्ते भासं ज्योतिषाम्, आदीप्तो भासेति वा, अदितेः पुत्र इति वा—इति निरुक्तम् २।१३। ३. प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्। सहस्रगुणमुत्सृष्टमादत्ते हि रसं रविः ॥ रघु० १।१८ इति न्यायेन आदित्यवत् प्रजानामेव भूत्यर्थं ताभ्यः करग्राहिणमित्यर्थः।