Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 909

1875 Mantra
Devata- अग्निः Rishi- सुतंभर आत्रेयः Chhand- जगती Swara- निषादः
Mantra with Swara
य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ प्र꣢थ꣣मं꣢ पु꣣रो꣡हि꣢तम꣣ग्निं꣡ न꣢꣯रस्त्रिषध꣣स्थे꣡ समि꣢꣯न्धते । इ꣡न्द्रे꣢ण दे꣣वैः꣢ स꣣र꣢थ꣣ꣳस꣢ ब꣣र्हि꣢षि꣣ सी꣢द꣣न्नि꣡ होता꣢꣯ य꣣ज꣡था꣢य सु꣣क्र꣡तुः꣢ ॥९०९॥

य꣡ज्ञ꣢स्य । के꣣तु꣢म् । प्रथ꣣म꣢म् । पु꣣रो꣡हि꣢तम् । पु꣣रः꣢ । हि꣣तम् । अग्नि꣢म् । न꣡रः꣢꣯ । त्रि꣣षधस्थे꣢ । त्रि꣣ । सधस्थे꣢ । सम् । इ꣡न्धते । इ꣡न्द्रे꣢꣯ण । दे꣣वैः꣢ । स꣣र꣡थ꣢म् । स꣣ । र꣡थ꣢꣯म् । सः । ब꣣र्हि꣡षि꣢ । सी꣡द꣢꣯त् । नि । हो꣡ता꣢꣯ । य꣣ज꣡था꣢य । सु꣣क्र꣡तुः꣢ । सु꣣ । क्रतुः ॥९०९॥१

Mantra without Swara
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैः सरथꣳस बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥

यज्ञस्य । केतुम् । प्रथमम् । पुरोहितम् । पुरः । हितम् । अग्निम् । नरः । त्रिषधस्थे । त्रि । सधस्थे । सम् । इन्धते । इन्द्रेण । देवैः । सरथम् । स । रथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुक्रतुः । सु । क्रतुः ॥९०९॥१

Samveda - Mantra Number : 909
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यज्ञस्य) अध्यात्मयज्ञस्य (केतुम्) ध्वजवत् स्थितम् प्रज्ञापकं वा, (प्रथमम्) मुख्यम्, (पुरोहितम्) सम्मुखे निहितम् (अग्निम्) तेजस्विनं परमेश्वरम् (नरः) उपासकाः मनुष्याः (त्रिषधस्थे) त्रीणि ज्ञानकर्मोपासनानि सह तिष्ठन्ति यत्र तस्मिन् जीवात्मनि (समिन्धते) सम्यक् प्रदीपयन्ति। (इन्द्रेण) जीवात्मना (देवैः) मनोबुद्धिप्राणेन्द्रियैः सह (सरथम्) समाने देहरथे स्थितः, यद्वा (इन्द्रेण) सूर्येण (देवैः) वायुजलपृथिवीमङ्गलबुधचन्द्रनक्षत्रादिभिः सह(सरथम्) एकस्मिन् ब्रह्माण्डरथे स्थितः (सः) असौ (होता) सुखादीनां दाता, (सुक्रतुः) सुप्रज्ञः सुकर्मा वा अग्निः परमेश्वरः (यजथाय) देहे सर्वेषामिन्द्रियादीनां बहिश्च सर्वेषां सूर्यचन्द्रपृथिव्यादीनां सङ्गमनाय (बर्हिषि) देहयज्ञे ब्रह्माण्डयज्ञे वा (निषीदत्) निषीदति ॥३॥२
Essence
स्वान्तरात्मनि महान्तं परमात्माग्निं सम्यक् प्रदीप्योपासनायज्ञोऽनुष्ठातव्यः ॥३॥
Subject
अथ पुनः परमात्मविषयो वर्ण्यते।
Footnote
१. ऋ० ५।११।२, ‘समिन्धते’ इत्यत्र ‘समी॑धिरे’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वद्विषये व्याख्यातवान्।