Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 908

1875 Mantra
Devata- अग्निः Rishi- सुतंभर आत्रेयः Chhand- जगती Swara- निषादः
Mantra with Swara
त्वा꣡म꣢ग्ने꣣ अ꣡ङ्गि꣢रसो꣣ गु꣡हा꣢ हि꣣त꣡मन्व꣢꣯विन्दञ्छिश्रिया꣣णं꣡ वने꣢꣯वने । स꣡ जा꣢यसे म꣣थ्य꣡मा꣢नः꣣ स꣡हो꣢ म꣣ह꣡त्त्वामा꣢꣯हुः꣣ स꣡ह꣢सस्पु꣣त्र꣡म꣢ङ्गिरः ॥९०८॥

त्वाम् । अ꣣ग्ने । अ꣡ङ्गि꣢꣯रसः । गु꣡हा꣢꣯ । हि꣣त꣢म् । अ꣡नु꣢꣯ । अ꣣विन्दन् । शिश्रियाण꣢म् । व꣡ने꣢꣯वने । व꣡ने꣢꣯ । व꣣ने । सः꣢ । जा꣣यसे । मध्य꣡मा꣢नः । स꣡हः꣢꣯ । म꣣ह꣢त् । त्वाम् । आ꣣हुः । स꣡ह꣢꣯सः । पु꣣त्र꣢म् । पु꣣त् । त्र꣢म् । अ꣢ङ्गिरः ॥९०८॥

Mantra without Swara
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥

त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेवने । वने । वने । सः । जायसे । मध्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । पुत् । त्रम् । अङ्गिरः ॥९०८॥

Samveda - Mantra Number : 908
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीः परमेश्वर ! (गुहा हितम्) गुहायां निहितम्, गुह्यम्, (वने वने) किरणे किरणे। [वनमिति रश्मिनाम। निघं० १।५।] जीवे जीवे वा२ (शिश्रियाणम्)श्रयन्तम्। [श्रिञ् सेवायाम्, शानच्।] (त्वाम् अङ्गिरसः) तपस्विनः प्राणायामाभ्यासिनो जनाः (अन्वविन्दन्) प्राप्नुवन्ति। (सः) असौ त्वम् (मथ्यमानः) ध्यायमानः (महत् सहः) उपासकस्य महद् बलम् (जायसे) भवसि। हे (अङ्गिरः) प्राणवत् प्रिय ! (त्वाम्) भवन्तम् (सहसः) बलस्य (पुत्रम्) पुत्तलम् (आहुः) कथयन्ति ॥२॥३
Essence
परमेश्वरः पदार्थे पदार्थे विद्यमानोऽपि चर्मचक्षुषाऽदृश्यत्वाद् गुह्यो वर्तते। तपसा ध्यानेनैव च स लभ्योऽस्ति। ध्यानिनो जनास्तस्य महद् बलं तेजश्च साक्षात्कुर्वन्ति ॥२॥
Subject
अथ परमात्मप्राप्तिविषयमाह।
Footnote
१. ऋ० ५।११।६, य० १५।२८। २. वने वने जङ्गले जङ्गलेऽग्नाविव जीवे जीवे इति ऋ० ५।११।६ भाष्ये द०। ३. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये परमात्मपक्षे यजुर्भाष्ये च बाह्याभ्यन्तराग्निपक्षे व्याख्यातः।