Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 907

1875 Mantra
Devata- अग्निः Rishi- सुतंभर आत्रेयः Chhand- जगती Swara- निषादः
Mantra with Swara
ज꣡न꣢स्य गो꣣पा꣡ अ꣢जनिष्ट꣣ जा꣡गृ꣢विर꣣ग्निः꣢ सु꣣द꣡क्षः꣢ सुवि꣣ता꣢य꣣ न꣡व्य꣢से । घृ꣣त꣡प्र꣢तीको बृह꣣ता꣡ दि꣢वि꣣स्पृ꣡शा꣢ द्यु꣣म꣡द्वि भा꣢꣯ति भर꣣ते꣢भ्यः꣣ शु꣡चिः꣢ ॥९०७॥

ज꣡न꣢꣯स्य । गो꣣पाः꣢ । गो꣣ । पाः꣢ । अ꣣जनिष्ट । जा꣡गृ꣢꣯विः । अ꣣ग्निः꣢ । सु꣣द꣡क्षः꣢ । सु꣣ । द꣡क्षः꣢꣯ । सु꣣वि꣡ता꣢य । न꣡व्य꣢꣯से । घृ꣣त꣡प्र꣢तीकः । घृ꣣त꣢ । प्र꣣तीकः । बृहता꣢ । दि꣣विस्पृ꣡शा꣢ । दि꣣वि । स्पृ꣡शा꣢꣯ । द्यु꣣म꣢त् । वि । भा꣣ति । भरते꣡भ्यः꣢ । शु꣡चिः꣢꣯ ॥९०७॥

Mantra without Swara
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥

जनस्य । गोपाः । गो । पाः । अजनिष्ट । जागृविः । अग्निः । सुदक्षः । सु । दक्षः । सुविताय । नव्यसे । घृतप्रतीकः । घृत । प्रतीकः । बृहता । दिविस्पृशा । दिवि । स्पृशा । द्युमत् । वि । भाति । भरतेभ्यः । शुचिः ॥९०७॥

Samveda - Mantra Number : 907
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(जागृविः) जागरूकः परमेश्वरः (जनस्य) सर्वेषां जनानाम् (गोपाः) रक्षकः (अजनिष्ट) जातोऽस्ति।(सुदक्षः) सुबलः सः (अग्निः) अग्रणीः परमेश्वरः (नव्यसे)अतिशयेन नवीनाय (सुविताय) भद्रप्राप्तये सहायको जायते। (घृतप्रतीकः) तेजःस्वरूपः। [घृतं तेजोमयं प्रतीकं रूपं यस्य सः। घृ क्षरणदीप्त्योः।] (शुचिः) पवित्रः सः (भरतेभ्यः२) धारणाध्यानसमाधिस्थेभ्यो जनेभ्यः। [डुभृञ् धारणपोषणयोः इत्यस्मात् ‘भृमृदृशि’ उ० ३।११० इत्यनेन अतच् प्रत्ययः।] (दिविस्पृशा) आत्मस्पर्शिना (बृहता) महता तेजसा (द्युमत्) भासमानः सन् (विभाति) शोभते ॥१॥३
Essence
तेजःस्वरूपः परमेश्वर उपासकानां रक्षकः सन् तान् दिव्यतेजःप्रदानेन कृतार्थयति ॥१॥
Subject
तत्रादौ परमेश्वरस्य स्वरूपमाह।
Footnote
१. ऋ० ५।११।१, यजु० १५।२७। २. भरत इति ऋत्विङ्नाम। निघं० ३।१८। (भरतेभ्यः) धारणपोषणकृद्भ्यो मनुष्येभ्यः इति ऋ० ५।११।१ भाष्ये द०। ३. दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च मन्त्रोऽयं क्रमेण पावकपक्षे विद्युत्पक्षे च व्याख्यातः।