Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 904

1875 Mantra
Devata- पवमानः सोमः Rishi- भृगुर्वारुणिर्जमदग्निर्भार्गवो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
हि꣣न्व꣢न्ति꣣ सू꣢र꣣मु꣡स्र꣢यः꣣ स्व꣡सारो जा꣣म꣢य꣣स्प꣡ति꣢म् । म꣣हा꣡मिन्दुं꣢꣯ मही꣣यु꣡वः꣢ ॥९०४॥

हि꣣न्व꣡न्ति꣢ । सू꣡र꣢꣯म् । उ꣡स्र꣢꣯यः । स्व꣡सा꣢꣯रः । जा꣣म꣡यः꣢ । प꣡ति꣢꣯म् । म꣣हा꣢म् । इ꣡न्दु꣢꣯म् । म꣣हीयु꣡वः꣢ ॥९०४॥

Mantra without Swara
हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् । महामिन्दुं महीयुवः ॥

हिन्वन्ति । सूरम् । उस्रयः । स्वसारः । जामयः । पतिम् । महाम् । इन्दुम् । महीयुवः ॥९०४॥

Samveda - Mantra Number : 904
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सूरम्) सूर्यम् (उस्रयः) रश्मयः (हिन्वन्ति) प्राप्नुवन्ति, (स्वसारः) सुष्ठु परत्र प्रक्षिप्ताः, विवाहित इत्यर्थः (जामयः) भगिन्यः (पतिम्) स्वीयं भर्तारम् (हिन्वन्ति) प्राप्नुवन्ति। तथैव (महीयुवः) पूजाकामाः उपासकाः (महाम्) महान्तम् (इन्दुम्) रसेन क्लेदकम् उपास्यं परमात्मानम् (हिन्वन्ति) प्राप्नुवन्ति ॥ [सुष्ठु अस्यते इति स्वसा सुपूर्वाद् असु क्षेपणे धातोः ‘सावसेर्ऋन्’ उ० २।९८ इति ऋन् प्रत्ययः। ‘जामये भगिन्यै। जामिरन्येऽस्यां जनयन्ति जामपत्यम्, जमतेर्वा स्याद् गतिकर्मणो निर्गमनप्राया भवति’। निरु० ३।६। महीयुवः, मही पूजा, मह पूजायाम्, कामयन्ते इति, क्यचि उ प्रत्ययः] ॥१॥ अत्राप्रस्तुतयोः उस्रिजाम्योः प्रस्तुतानां च महीयुवां ‘हिन्वन्ति’ इत्येकक्रियायोगाद् दीपकालङ्कारः किञ्च ‘स्वसारो जामयः’ इथ्युभयोर्भगिनीवाचकत्वात् पुरनरुक्तिप्रतीतेः व्याख्यातदिशा च तत्परिहारात् पुनरुक्तवदाभासोऽपि। ‘सूर, सारो’ ‘महा, मही’ इत्यत्र च छेकानुप्रासः ॥१॥
Essence
ये परमात्मानमाप्तुं सर्वात्मना तत्परा जायन्ते तेऽन्ततस्तमाप्नुवन्त्येव ॥१॥
Subject
तत्रादौ परमात्मविषयमाह।
Footnote
१. ऋ० ९।६५।१।