Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 903

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣣मीचीना꣡ अ꣢नूषत꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥९०३॥

समी꣣चीनाः꣢ । स꣣म् । ईचीनाः꣢ । अ꣣नूषत । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥९०३॥

Mantra without Swara
समीचीना अनूषत हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥

समीचीनाः । सम् । ईचीनाः । अनूषत । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥९०३॥

Samveda - Mantra Number : 903
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
ये उपासकाः (समीचीनाः) परस्परं संगताः सन्तः (अनूषत) पवमानं परमात्मानं स्तुवन्ति, अपि च (हरिम्) अज्ञानदुःखादीनां हर्तारं तम् (अद्रिभिः) अखण्डितैः ध्यानैः (हिन्वन्ति) स्वात्मनि वर्धयन्ति। [हि गतौ वृद्धौ च।] ते (इन्दुम्) क्लेदकं ब्रह्मानन्दरसम् (इन्द्राय) स्वजीवात्मने (पातवे) पाययितुं प्रभवन्ति इति शेषः ॥६॥
Essence
ध्यानयोगेन परमात्मानमाराध्य जना ब्रह्मानन्दं प्राप्तुमर्हन्ति ॥६॥
Subject
अथ के ब्रह्मानन्दं प्राप्नुवन्तीत्याह।
Footnote
१. ऋ० ९।३९।६ ‘योना॑वृ॒तस्य॑ सीदत’ इति तृतीयः पादः।