Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 902

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣣वि꣡वा꣢सन्परा꣣व꣢तो꣣ अ꣡थो꣢ अर्वा꣣व꣡तः꣢ सु꣣तः꣢ । इ꣡न्द्रा꣢य सिच्यते꣣ म꣡धु꣢ ॥९०२॥

आ꣣वि꣡वा꣢सन् । आ꣢ । वि꣡वा꣢꣯सन् । प꣣राव꣡तः꣢ । अ꣡थ꣢꣯ । उ꣣ । अर्वाव꣡तः꣢ । सु꣣तः꣢ । इ꣡न्द्रा꣢꣯य । सि꣣च्यते । म꣡धु꣢꣯ ॥९०२॥

Mantra without Swara
आविवासन्परावतो अथो अर्वावतः सुतः । इन्द्राय सिच्यते मधु ॥

आविवासन् । आ । विवासन् । परावतः । अथ । उ । अर्वावतः । सुतः । इन्द्राय । सिच्यते । मधु ॥९०२॥

Samveda - Mantra Number : 902
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
पवमानः चित्तशोधकः सोमः परमेश्वरः (सुतः) हृदये प्रकटीकृतः सन् (परावतः) पराविद्यायुक्तान् (अथ उ) अथ च (अर्वावतः) अपराविद्यायुक्तान् उपासकान् (आ विवासन्) सम्मानयन् भवति। तस्मात् परमेश्वरादभिषुतम् (मधु) मधुरः आनन्दरसः (इन्द्राय) जीवात्मने (सिच्यते) क्षार्यते ॥५॥
Essence
ये स्वात्मानं मधुरेण ब्रह्मानन्दरसेन स्नपयन्ति ते निर्मलान्तःकरणा उपासकाः सर्वथा विमुक्तक्लेशाः सन्तः परमां गतिं प्राप्नुवन्ति ॥५॥
Subject
अथ पुनः स एव विषयो वर्ण्यते।
Footnote
१. ऋ० ९।३९।५।