Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 901

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सु꣣त꣡ ए꣢ति प꣣वि꣢त्र꣣ आ꣢꣫ त्विषिं꣣ द꣡धा꣢न꣣ ओ꣡ज꣢सा । वि꣣च꣡क्षा꣢णो विरो꣣च꣡य꣢न् ॥९०१॥

सु꣣तः꣢ । ए꣣ति । पवि꣡त्रे꣢ । आ । त्वि꣡षि꣢꣯म् । द꣡धा꣢꣯नः । ओ꣡ज꣢꣯सा । वि꣡च꣡क्षा꣢णः । वि꣣ । च꣡क्षा꣢꣯णः । वि꣣रो꣡चय꣢न् । वि꣣ । रोच꣡य꣢न् ॥९०१॥

Mantra without Swara
सुत एति पवित्र आ त्विषिं दधान ओजसा । विचक्षाणो विरोचयन् ॥

सुतः । एति । पवित्रे । आ । त्विषिम् । दधानः । ओजसा । विचक्षाणः । वि । चक्षाणः । विरोचयन् । वि । रोचयन् ॥९०१॥

Samveda - Mantra Number : 901
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुतः) परिस्रुतानन्दरसः एष सोमः परमात्मा (त्विषिम्) दीप्तिम् (दधानः) धारयन् (ओजसा) बलेन (पवित्रे) परिपूते हृदये आत्मनि वा (आ एति) आगच्छति। तदानीं च (विचक्षाणः)विशेषेण अन्तर्दृष्टिं प्रयच्छन् (विरोचयन्) विशेषेण प्रदीपयंश्च भवति ॥४॥
Essence
परमात्मना सख्यं स्थापयन्नुपासकोऽन्तर्दृष्ट्या ब्रह्मतेजसा च युक्तः परमानन्दवान् संजायते ॥४॥
Subject
अथ ब्रह्मानन्दप्रदाता परमेश्वरो वर्ण्यते।
Footnote
१. ऋ० ९।३९।३।