Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 90

1875 Mantra
Devata- अग्निः Rishi- वामदेवः कश्यपो वा मारीचो मनुर्वा वैवस्वत अभौ वा Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
जा꣣तः꣡ परे꣢꣯ण꣣ ध꣡र्म꣢णा꣣ य꣢त्स꣣वृ꣡द्भिः꣢ स꣣हा꣡भु꣢वः । पि꣣ता꣢꣫ यत्क꣣श्य꣡प꣢स्या꣣ग्निः꣢ श्र꣣द्धा꣢ मा꣣ता꣡ मनुः꣢꣯ क꣣विः꣢ ॥९०

जा꣣तः꣢ । प꣡रे꣢꣯ण । ध꣡र्म꣢꣯णा । यत् । स꣣वृ꣡द्भिः꣢ । स꣣ । वृ꣡द्भिः꣢꣯ । स꣣ह꣢ । अ꣡भु꣢꣯वः । पि꣣ता꣢ । यत् । क꣣श्य꣡प꣢स्य । अ꣣ग्निः꣢ । श्र꣣द्धा꣢ । श्र꣣त् । धा꣢ । मा꣣ता꣢ । म꣡नुः꣢꣯ । क꣣विः꣢ ॥९०॥

Mantra without Swara
जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः । पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः ॥९०

जातः । परेण । धर्मणा । यत् । सवृद्भिः । स । वृद्भिः । सह । अभुवः । पिता । यत् । कश्यपस्य । अग्निः । श्रद्धा । श्रत् । धा । माता । मनुः । कविः ॥९०॥

Samveda - Mantra Number : 90
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 9;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जीवात्मन् ! त्वम् (परेण) उत्कृष्टेन (धर्मणा) धर्माख्येन संस्कारेण निमित्तेन (जातः) मानवयोनौ गृहीतजन्मा वर्तसे, (यत्) यतः (सवृद्भिः१) सह वर्त्तन्ते इति सवृतः तैः सूक्ष्मशरीरस्थैः पञ्चप्राण- पञ्चज्ञानेन्द्रिय-पञ्चसूक्ष्मभूत-मनोबुद्धिरूपैः सप्तदशतत्त्वैः (सह) सार्द्धम् त्वम् (अभुवः) विद्यमानः आसीः। (यत्) यस्मात् (कश्यपस्य) द्रष्टुस्तव। पश्यतीति पश्यकः, वर्णविपर्ययेण कश्यपः। कश्यपः पश्यको भवति, यत् सर्वं परिपश्यतीति तै० आ० १।८।८। (पिता) जनकः (अग्निः) अग्रणीः तेजोमयः परमात्मा विद्यते, तस्मात् (श्रद्धा) श्रद्धा (माता) तव जननीतुल्या भवेत्, त्वं स्वयं च (मनुः) मननशीलः। मनु अवबोधने धातोः स्वृ० उ० १।१० इति उ प्रत्ययः। (कविः) मेधावी च भवेति शेषः। कविरिति मेधाविनाम। निघं० ३।१५।१० ॥
Essence
यदा जीवात्मा मृत्युकाले शरीरान्निस्सरति तदा सूक्ष्मशरीरं तेन सह विद्यमानं भवति, सूक्ष्मशरीरस्थे चित्ते च प्रोता धर्माधर्माख्याः शुभाशुभकर्मसंस्कारा आत्मना सहैव गच्छन्ति। धर्मेण स मनुष्यजन्म, अधर्मेण च पशुपक्ष्यादिजन्मानि प्राप्नोति। जीवात्मा खलु ज्ञानग्रहणसामर्थ्यवत्त्वात् कश्यपो द्रष्टा वा वर्तते, अतस्तेन सकलस्य ज्ञानविज्ञानस्य संचयः कार्यः। यतः परमेश्वरः शरीरे तस्य जन्मदाता भवति, अतः पितुर्महत्त्वं विचार्य तेन जीवने श्रद्धा मातृवत् स्वीकर्त्तव्या, स्वयमपि च मननशीलेन मेधाविना च भाव्यम् ॥१०॥ ये तु ब्रुवन्ति कश्यपः ऋषेर्नाम, श्रद्धा देव्या नाम, मनुश्च वैवस्वत इति तेषां मतं न समञ्जसम्, वेदेषु लौकिकेतिहासाभावात् ॥ अत्र परमात्मनः सकाशाद् यशस्तेजोधनबलादिप्रार्थनात्, परमात्मप्रभाववर्णनाद्, अतिथिं तं प्रति हव्यसमर्पणार्थं तत्पूजार्थं च प्रेरणात्, परमात्मनि पितृत्वेन श्रद्धायां मातृत्वेन वर्णनाच्चैतस्य दशतेः पूर्वदशत्या सह सङ्गतिरस्तीति विजानीत। इति प्रथमे प्रपाठके द्वितीयार्धे चतुर्थी दशतिः। इति प्रथमेऽध्याये नवमः खण्डः ॥
Subject
अथ गृहीतमानवजन्मानं जीवात्मानं सम्बोधयन्नाह।
Footnote
१. सह ये वर्तन्ते गच्छन्ति ते सवृतः, तैः सवृद्भिः, सहयोगलक्षणैषा तृतीया, सहगामिभिः सह—इति वि०। सवृद्भिः सह वर्तमानैः छन्दोभिः—इति भ०। यज्ञे सह वर्तन्ते इति सवृतः ऋत्विजः तैः सह—इति सा०।