Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 899

1875 Mantra
Devata- पवमानः सोमः Rishi- बृहन्मतिराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣣रिष्कृण्व꣡न्ननि꣢꣯ष्कृतं꣣ ज꣡ना꣢य या꣣त꣢य꣣न्नि꣡षः꣢ । वृ꣣ष्टिं꣢ दि꣣वः꣡ परि꣢꣯ स्रव ॥८९९॥

प꣣रिष्कृण्व꣢न् । प꣣रि । कृण्व꣢न् । अ꣡नि꣢꣯ष्कृतम् । अ । नि꣣ष्कृतम् । ज꣡ना꣢य । या꣣त꣡य꣢न् । इ꣡षः꣢꣯ । वृ꣣ष्टि꣢म् । दि꣣वः꣢ । प꣡रि꣢꣯ । स्र꣣व ॥८९९॥

Mantra without Swara
परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः । वृष्टिं दिवः परि स्रव ॥

परिष्कृण्वन् । परि । कृण्वन् । अनिष्कृतम् । अ । निष्कृतम् । जनाय । यातयन् । इषः । वृष्टिम् । दिवः । परि । स्रव ॥८९९॥

Samveda - Mantra Number : 899
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम, पवित्रतादायक रसागार परमेश ! त्वम् (अनिष्कृतम्) अपरिष्कृतं हृदयम् (परिष्कृण्वन्) परिष्कुर्वन्, किञ्च (जनाय) उपासकाय (इषः) आक्रान्तॄन् विघ्नान्। [इष्यन्ति आक्रामन्ति इति इषः। इष गतौ, दिवादिः।] (यातयन्) हिंसन् [यातयतिः वधकर्मा। निघं० २।१९] (दिवः) आनन्दमयकोशात् (वृष्टिम्) आनन्दरसस्य धारासारम् (परि स्रव) प्रवाहय ॥२॥
Essence
यथा मेघाद् वृष्टौ सत्यां शुष्का भूमिः सरसा जायते तथैव सर्वेषामात्मनि स्थितात् परमात्मनः सकाशाद् आनन्दरसस्य वृष्टौ सत्यामात्ममनोबुद्ध्यादयः सर्वे सरसाः सप्राणाश्च भवन्ति ॥२॥
Subject
अथ परमेश्वरः प्रार्थ्यते।
Footnote
१. ऋ० ९।३९।२।