Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 895

1875 Mantra
Devata- पवमानः सोमः Rishi- मेध्यातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ प꣢वस्व म꣣ही꣢꣫मिषं꣣ गो꣡म꣢दिन्दो꣣ हि꣡र꣢ण्यवत् । अ꣡श्व꣢वत्सोम वी꣣र꣡व꣢त् ॥८९५॥

आ । प꣣वस्व । मही꣢म् । इ꣡ष꣢꣯म् । गो꣡म꣢꣯त् । इ꣣न्दो । हि꣡र꣢꣯ण्यवत् । अ꣡श्व꣢꣯वत् । सो꣣म । वीरव꣡त्꣢ ॥८९५॥

Mantra without Swara
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् । अश्ववत्सोम वीरवत् ॥

आ । पवस्व । महीम् । इषम् । गोमत् । इन्दो । हिरण्यवत् । अश्ववत् । सोम । वीरवत् ॥८९५॥

Samveda - Mantra Number : 895
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) दीप्तिमन् ज्ञानरसेन क्लेदक (सोम) प्रेरक परमात्मन् आचार्य वा ! त्वम् अस्मभ्यम् (गोमत्) प्रशस्तधेनुयुक्तां यशोयुक्तां वा, (हिरण्यवत्) सुवर्णयुक्तां, ज्योतिर्युक्तां, यशोयुक्तां वा (अश्ववत्) तुरगयुक्तां प्राणयुक्तां वा, (वीरवत्) वीरपुत्रैर्युक्तां वीरभावैर्युक्तां वा (महीम्) महतीम् (इषम्) इच्छासिद्धिम् (आ पवस्व) आ प्रापय ॥४॥
Essence
परमात्मन आचार्यस्य च कृपया विद्यावन्तो भूत्वा वयं सर्वविधां लौकिकीमाध्यात्मिकीं च सम्पदं प्राप्य सुखिनो भवेम ॥४॥
Subject
अथ पुनस्तयोरेव विषयं प्राह।
Footnote
१. ऋ० ९।४१।४, ‘अश्वा॑व॒द् वाज॑वत् सुतः’ इति तृतीयः पादः।