Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 893

1875 Mantra
Devata- पवमानः सोमः Rishi- मेध्यातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सु꣣वित꣡स्य꣢ वनाम꣣हे꣢ऽति꣣ से꣡तुं꣢ दुरा꣣꣬य्य꣢꣯म् । सा꣣ह्या꣢म꣣ द꣡स्यु꣢मव्र꣣तम् ॥८९३॥

सु꣣वित꣡स्य꣢ । व꣣नामहे । अ꣡ति꣢꣯ । से꣡तु꣢꣯म् । दु꣣राय्य꣢म् । दुः꣣ । आय्य꣢म् । सा꣣ह्या꣡म꣢ । द꣡स्यु꣢꣯म् । अ꣣व्रत꣢म् । अ꣣ । व्रत꣢म् ॥८९३॥

Mantra without Swara
सुवितस्य वनामहेऽति सेतुं दुराय्यम् । साह्याम दस्युमव्रतम् ॥

सुवितस्य । वनामहे । अति । सेतुम् । दुराय्यम् । दुः । आय्यम् । साह्याम । दस्युम् । अव्रतम् । अ । व्रतम् ॥८९३॥

Samveda - Mantra Number : 893
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् (सेतुम्) अवरोधम् (अति) अतिक्रम्य (सुवितस्य) सुप्राप्तस्य आनन्दरसागारस्य परमात्मनः विद्यासागारस्य आचार्यस्य वा (दुराय्यम्) दुष्प्राप्यम् आनन्दरसं विद्यारसं वा (वनामहे२) संभजामहे। तेन् वयम् (अव्रतम्) व्रतविरोधिनं सत्कर्मविरोधिनं वा (दस्युम्) उपक्षयकारिणं कामक्रोधादिषड्रिपुवर्गम् (साह्याम) अभिभवेम। [सहतेराशीर्लिङि रूपम्, उपधादीर्घः परमस्मैपदं च छान्दसम्] ॥२॥
Essence
गुरूणां सत्कारेण, परमात्मोपासनेन च विद्यामानन्दं चाधिगम्य बाह्यानान्तरांश्च रिपून् पराजित्य सत्कर्माण्याचरणीयानि ॥२॥
Subject
अथ परमात्मविषयमाचार्यविषयं चाह।
Footnote
१. ऋ० ९।४१।२, ‘दुरा॒व्य॑म्’, ‘सा॒ह्वांसो॒’ इति पाठः। २. वनामहे वनतिः स्तुतिकर्मा, स्तुतिं कुर्मः—इति वि०।