Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 892

1875 Mantra
Devata- पवमानः सोमः Rishi- मेध्यातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣢꣫ यद्गावो꣣ न꣡ भूर्ण꣢꣯यस्त्वे꣣षा꣢ अ꣣या꣢सो꣣ अ꣡क्र꣢मुः । घ्न꣡न्तः꣢ कृ꣣ष्णा꣢꣫मप꣣ त्व꣡च꣢म् ॥८९२॥

प्र꣢ । यत् । गा꣡वः꣢꣯ । न । भू꣡र्ण꣢꣯यः । त्वे꣣षाः꣢ । अ꣣या꣡सः꣢ । अ꣡क्र꣢꣯मुः । घ्न꣡न्तः꣢꣯ । कृ꣣ष्णा꣢म् । अ꣡प꣢꣯ । त्व꣡च꣢꣯म् ॥८९२॥

Mantra without Swara
प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥

प्र । यत् । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः । घ्नन्तः । कृष्णाम् । अप । त्वचम् ॥८९२॥

Samveda - Mantra Number : 892
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यत्) यदा (गावः न) धेनवः इव (भूर्णयः) भरणपोषणकारिणः। [बिभर्ति इति भूर्णिः। ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’ उ० ४।५३ इत्यनेन डुभृञ् धारणपोषणयोः इति धातोः निः प्रत्ययः, धातोरूत्वं च।] (त्वेषाः) उज्ज्वलाः (अयासः) शिष्यान् प्रति गमनशीलाः सोमाः ज्ञानरसाः (प्र अक्रमुः) प्र क्रमन्ते, तदा (त्वचम्) संवरणकरीम् (कृष्णाम्) अविद्यारात्रिम् (घ्नन्तः) नाशयन्तः, भवन्तीति शेषः ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यदा शिष्या आचार्याद् विविधा लोकविद्या ब्रह्मविद्याश्च प्राप्नुवन्ति तदा निखिला अविद्यानिशा अपगच्छन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४९१ क्रमाङ्के परमात्मजन्यानन्दरसविषये व्याख्याता। अत्राचार्यजन्यज्ञानविषयो वर्ण्यते।
Footnote
१. ऋ० ९।४१।१, ‘यद्’ इत्यत्र ‘ये’ इति पाठः। साम० ४९१।