Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 890

1875 Mantra
Devata- पवमानः सोमः Rishi- अहमीयुराङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मान꣣ र꣢स꣣स्त꣢व꣣ म꣡दो꣢ राजन्नदुच्छु꣣नः꣢ । वि꣢꣫ वार꣣म꣡व्य꣢मर्षति ॥८९०॥

प꣡वमा꣢꣯न । र꣡सः꣢꣯ । त꣡व꣢꣯ । म꣡दः꣢꣯ । रा꣣जन् । अदुच्छुनः꣢ । अ꣣ । दुच्छुनः꣢ । वि । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् । अ꣣र्षति ॥८९०॥

Mantra without Swara
पवमान रसस्तव मदो राजन्नदुच्छुनः । वि वारमव्यमर्षति ॥

पवमान । रसः । तव । मदः । राजन् । अदुच्छुनः । अ । दुच्छुनः । वि । वारम् । अव्यम् । अर्षति ॥८९०॥

Samveda - Mantra Number : 890
(Kauthum) उत्तरार्चिकः: » Prapathak » 3; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 5; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पवमान) पवित्रताप्रद (राजन्) तेजस्विन् परमात्मन् आचार्य वा ! यः (तव) त्वदीयः (अदुच्छुनः) न विद्यते दुच्छुना दुर्गतिः दुखं वा येन तादृशः (मदः) उत्साहकरः (रसः) आनन्दरसो ज्ञानरसो वा विद्यते, सः (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) दोषनिवारकम् आत्मानम् (वि अर्षति) विविधं प्राप्नोति ॥२॥
Essence
परमेश्वरादाचार्याच्च प्रस्रुतमानन्दरसं विज्ञानरसं च प्राप्य मानवानामात्मा कृतार्थो जायते ॥२॥
Subject
अथ पुनः परमात्माचार्ययोर्विषयमाह।
Footnote
१. ऋ० ९।६१।१७, ‘पव॑मानस्य ते॒ रसो॒’ इति प्रथमः पादः।